Enter your Email Address to subscribe to our newsletters

कोलकातानगरम्, ०२ अप्रैलमासः (हि.स.)। पश्चिम-बङ्गाल-विधानसभानिर्वाचनस्य मध्ये भवानीपुर-आसनात् भाजपा-अभ्यर्थिनः शुभेन्दु-अधिकारिणः नामांकनात् पूर्वं केन्द्रीयगृहमन्त्री अमितशाहः गुरुवासरे कोलकातायां शोभायात्राम् अकरोत्। अस्मिन् अवसरे सः राज्ये राजनैतिक-परिवर्तनस्य आह्वानं कृत्वा भाजपा-अभ्यर्थिनां समर्थनार्थं मतदानस्य आह्वानं कृतवान्।
हाजरा-मोडात् आरब्धायाम् अस्यां शोभायात्रायाम् अमितशाहः शुभेन्दु-अधिकारी च उपस्थितौ आस्ताम्। अन्येऽपि भाजपा-अभ्यर्थिनः अस्मिन् कार्यक्रमे सहभागिनः अभवन्, ये अद्यैव स्व-नामांकनपत्राणि दातुं सज्जाः सन्ति।
सभां सम्बोधयन् अमितशाहः अवदत् यत् पश्चिम-बङ्गाले परिवर्तनं निश्चितम्, भवानीपुरेऽपि परिवर्तनम् आवश्यकम्। तेन जनान् आह्वयन् उक्तं यत् राज्ये परिवर्तनाय भाजपा-अभ्यर्थिनः बहुमतैः विजयीकरणीयाः।
अमितशाहः अवदत् यत् तेन शुभेन्दु-अधिकारिणः केवलं नन्दीग्रामात् न, अपि तु मुख्यमन्त्री ममता-बनर्जी-इत्यस्य गढत्वेन प्रसिद्धात् भवानीपुरात् अपि निर्वाचनं कर्तुम् अनुरोधः कृतः। तेन उक्तं यत् पूर्वं ममता-बनर्जी राज्ये सर्वकारं निर्मातुं सफलाऽभवत्, किन्तु नन्दीग्रामे शुभेन्दु-अधिकारिणः समक्षं पराजिताऽभवत्।
सः अवदत् यत् भाजपा एकैकं आसनं विजित्य १७० पर्यन्तं प्राप्स्यति, किन्तु भवानीपुर-आसनस्य विजयः राज्य-राजनीत्यां महत्त्वपूर्णं सन्देशं दास्यति। तेन उक्तं यत् बङ्गाले परिवर्तनाय भवानीपुरात् ममतां पराजेतुम् आवश्यकम्।
पूर्वं शुभेन्दु-अधिकारिणः नामांकनात्पूर्वं भवानीपुर-स्थिते गुरुद्वारे तथा लक्ष्मीनारायण-मन्दिरे पूजां कृतवान्। सभायात्रा-समाप्तेः अनन्तरं अभ्यर्थिनः भवनं गत्वा नामांकनं दास्यन्ति इत्यपि सूचितम्। उल्लेखनीयम् यत् अमितशाहः बुधवासरे रात्रौ नामांकन-कार्यक्रमे सहभागितायै कोलकातानगरं प्राप्तः।
हिन्दुस्थान समाचार / Dheeraj Maithani