Enter your Email Address to subscribe to our newsletters

अररियाजनपदः, ०२ अप्रैलमासः (हि.स.)। बथनाहा-स्थितां एसएसबी 56वीं वाहिनी-मुख्यालये अन्ताराष्ट्रिय-योग-दिवसस्य सज्जा-सन्दर्भे पीटी-प्राङ्गणे कार्यक्रमः आयोजितः।
अस्मिन् कार्यक्रमे शारीरिक-शिथिलतां, मानसिक-शान्तिः तथा सामुदायिक-एकतां वर्धयितुं विभिन्न-आसनानाम् अभ्यासः कृतः।
कार्यक्रमस्य प्रारम्भः प्रार्थनया अभवत्, ततः सूक्ष्म-व्यायामः, प्राणायामः, तथा ताड़ासनम्, वज्रासनम्, भुजंगासनम् इत्यादीनि आसनानि अभ्यासितानि।
कार्यक्रमे कमाण्डेण्ट्, चिकित्सा-संयुक्त-रोगालय-बथनाहा-निवासी-गोंडा डॉ.दीपक-प्रसादः, द्वितीय-कमान-अधिकारी-चिकित्सा-संयुक्त-रोगालयः डॉ.वि.चक्मा, उप-कमान्डेण्ट् हर्षित-कुमावतः, मदन-मोहन-भट्टः च अन्यबलकार्मिणः उत्साहपूर्वकं भागं गृहीतवन्तः।
हिन्दुस्थान समाचार / Dheeraj Maithani