भाजपा महिला मोर्चादलस्य अद्य राजधान्यां जन आक्रोश यात्रा, मुख्यमंत्री सायः सम्मेलिष्यते 
रायपुरम् 20 अप्रैलमासः (हि.स.)। छत्तीसगढ़स्य राजधानी रायपुर नगरे अद्य सोमवासरे भारतीय जनता पार्टी महिला मोर्चा द्वारा आक्रोशयात्रायाः आयोजनं क्रियते। एषा आक्रोश यात्रा अपराह्णे ३ वादने इंडोर स्टेडियम आरभ्य सुभाष स्टेडियम पर्यन्तं गत्वा सम्मेलनर
भाजपा की रैली फाइल फाेटाे


रायपुरम् 20 अप्रैलमासः (हि.स.)।

छत्तीसगढ़स्य राजधानी रायपुर नगरे अद्य सोमवासरे भारतीय जनता पार्टी महिला मोर्चा द्वारा आक्रोशयात्रायाः आयोजनं क्रियते।

एषा आक्रोश यात्रा अपराह्णे ३ वादने इंडोर स्टेडियम आरभ्य सुभाष स्टेडियम पर्यन्तं गत्वा सम्मेलनरूपेण समाप्तिं गमिष्यति।

अस्यां जनाक्रोशयात्रायां मुख्यमंत्री विष्णुदेव साय, भाजपा प्रदेशाध्यक्षः किरण देव सहिताः सर्वे मन्त्रिणः, बहुसंख्यकाः महिला कार्यकर्तारः प्रमुख नेतारश्च भागं ग्रहिष्यन्ति।

---------------

हिन्दुस्थान समाचार