Enter your Email Address to subscribe to our newsletters

कानपुरम्, 20 अप्रैलमासः (हि.स.)। दीपक राज बहूनि दशकानि यावत् आईआईटी कानपुर इत्यस्य दृढः सहयोगी आसीत्, तथा वैश्विक-वित्त-क्षेत्रे सार्वजनिक-सेवायां च तस्य अनुभवः अस्माकं छात्राणां कृते प्रेरणादायकः अस्ति।अस्माकं विश्वासः अस्ति यत् तस्य नेतृत्वे फाउण्डेशनं नूतनां दिशां गतिं च प्राप्स्यति, तथा संस्थानस्य प्रगतिरेव अधिकं वेगं गमिष्यति।
एतत् सोमवासरे आईआईटी-कानपुरस्य निदेशकः मणीन्द्र अग्रवाल उक्तवान्। सः दीपक-राजस्य नियुक्तेः विषये स्वप्रतिक्रियां दत्तवान्।
आईआईटी कानपुर फाउंडेशन इत्यनेन वाल्-स्ट्रीट्-स्थितः अनुभवी-वित्त-विशेषज्ञः परमार्थी च दीपक-राजः स्वस्य निदेशक-मण्डलस्य नूतन-अध्यक्षरूपेण नियुक्तः।एषा नियुक्तिः तस्मिन् समये जाता यदा फाउण्डेशनं वैश्विक-स्तरे स्वस्य रणनीतिक-पहलानां विस्तारं करोति।
दीपक-राजः चत्वारिंशत्-वर्षाधिक-अनुभवेन सह एतां भूमिकां स्वीकृतवान्।सः राज-असोसिएट्स् इत्यस्य संस्थापकः अस्ति तथा मेरिल लिंच इत्यत्र ग्लोबल-इक्विटी-रिसर्च-विभागस्य पूर्व-प्रमुखः आसीत्।तस्य नेतृत्वेन फाउण्डेशनस्य निधि-संग्रहः (एण्डोमेंट्) अनुसंधान-सहयोग-योजनाः च अधिकं सुदृढाः भविष्यन्ति इति अपेक्षा अस्ति।
फाउण्डेशनस्य अध्यक्षः राजीव कुमार रंजन उक्तवान् यत् दीपक-राजस्य अनुभवः तथा विविधेषु सामाजिक-संस्थासु तस्य भूमिका संस्थानस्य वैश्विक-मिशनं प्रगाढं कर्तुं महत्त्वपूर्णा भविष्यति।सः विभिन्नान् जनान् एकस्मिन् सामान्य-उद्देश्ये संयोजयितुं स्वसामर्थ्यं पूर्वमेव दर्शितवान्।
दीपक-राजः अपि उक्तवान् यत् आईआईटी-कानपुरः तस्य व्यावसायिक-जीवनस्य दृढां आधारशिलां स्थापितवान्, तथा सः वैश्विक-पूर्व-छात्र-समुदायं संयोज्य संस्थानस्य भविष्य-दृष्टिं प्रगाढं कर्तुं प्रतिबद्धः अस्ति।
सः न्यू-जर्सी-स्थितस्य निजी-निवेश-संस्थायाः “राज-असोसिएट्स्” इत्यस्य प्रबन्ध-निदेशकः अस्ति, तथा न्यू-जर्सी-स्टेट्-इन्वेस्टमेंट्-काउन्सिल् इत्यस्य अध्यक्षरूपेण अपि कार्यं कृतवान्।
आईआईटी-कानपुर-फाउण्डेशनं अमेरिका-स्थितं गैर-लाभकारी-संस्थानम् अस्ति, यत् संस्थानस्य कृते वित्त-सहाय्यं, अनुसंधान-परियोजनाः छात्रवृत्तयः च प्रददाति।
हिन्दुस्थान समाचार