आई-पैकद्वारा कर्मचारिणो विंशतिदिनात्मकावकाशं प्रदाय प्रेषिताः, तृणमूल कांग्रेसदलस्य वैकल्पिकदलं दुर्गं संभालितवन्तः
कोलकाता, 20 अप्रैलमासः (हि.स.)। पश्चिम बंगाल राज्ये विधानसभा-निर्वाचनात् पूर्वमेव तृणमूल कांग्रेस दलस्य निर्वाचन-रणनीतिं वहन्त्या आई-पैक संस्थया विंशतिदिनपर्यन्तं कार्यनिरोधनिर्णयात् राजनैतिकक्षेत्रे स्पन्दनं तीव्रं जातम्। उक्तं यत् शनिवासरे निश
ममता


कोलकाता, 20 अप्रैलमासः (हि.स.)।

पश्चिम बंगाल राज्ये विधानसभा-निर्वाचनात् पूर्वमेव तृणमूल कांग्रेस दलस्य निर्वाचन-रणनीतिं वहन्त्या आई-पैक संस्थया विंशतिदिनपर्यन्तं कार्यनिरोधनिर्णयात् राजनैतिकक्षेत्रे स्पन्दनं तीव्रं जातम्।

उक्तं यत् शनिवासरे निशीथे संस्थया प्रचारकार्ये नियुक्तेभ्यः कर्मकरभ्यः ई-मेलद्वारा विंशतिदिनात्मकां अवकाशं गन्तुं निर्देशः दत्तः। रविवासरे अस्य समाचारस्य प्रकाशे प्रथमं तृणमूलदलेन एतत् असत्यं इति निराकृतम्। दलस्य वक्तव्ये उक्तं यत् एषा वार्ता मिथ्या अस्ति। किन्तु सायंकाले ममता बनर्जी स्वयमेव अङ्गीकृतवती यत् वास्तवमेव आई-पैक संस्थया कार्यं स्थगितम्।

तत्पश्चात् तृणमूल कांग्रेस दलस्य द्वारा शीघ्रमेव वैकल्पिकी टीम् कार्यक्षेत्रे नियुक्ता। सूत्रानुसारं प्रथमचरणमतदानात् पूर्वमेव आई-पैकस्य निवृत्त्या दलनेतृणां मध्ये चिन्ता वर्धिता, यतः गुरुवासरे राज्यस्य १५२ आसनेषु मतदानं भवितुम् अस्ति।

यद्यपि दलेन उक्तं यत् स्वस्य प्रशिक्षिता व्यावसायिक-समूहः पूर्वमेव सक्रियः अस्ति, तथा अधुना स एव प्रचारकार्यं, बूथ-प्रबन्धनं तथा मतदान-दिवस-निगराणी च वहिष्यति। उक्तं यत् अभिषेक बनर्जी कार्यालयतः सञ्चालितः अयं समूहः अनेकेषु जनपदेषु पूर्वमेव कार्यं कुर्वन् आसीत्, अधुना तस्मै अधिका उत्तरदायित्वानि दत्तानि।

बूथस्तरे व्हाट्सएप-समूहाः निर्मीयन्ते, यत्र मतदानप्रतिशतं, मतदानयन्त्रस्य मोहरोपणकालः तथा स्थानीयपरिस्थितेः सूचना त्वरितं प्रेष्यते।

अस्यां परिस्थितौ आई-पैक-कर्मकराणां मध्ये अनिश्चितताया वातावरणम् अपि दृश्यते। अनेकेषु जनपदेषु तेषां कृते वाहनव्यवस्था अपि निरुद्धा इति वार्ता अस्ति। अस्मिन् सन्दर्भे मुख्यमन्त्री ममता बनर्जी सार्वजनिकसभायां उक्तवती यत् सा कस्यचित् अपि बेरोजगारीं न भविष्यति इति सुनिश्चितं करिष्यति।

सा उक्तवती — “ये जनाः अस्माकं कृते कार्यं कुर्वन्ति, ते भयभीता भवन्ति। यदि ते निष्कासिताः भविष्यन्ति, तर्हि वयं तेषां कृते कार्यं दास्यामः। एकः अपि युवकः बेरोजगारः न भविष्यति।”

उल्लेखनीयम् यत् गतैः केषुचित् मासेषु प्रवर्तन निदेशालय क्रियाकलापानन्तरं आई-पैकस्य अनेकाधिकारिणां उपरि दाबः वर्धितः अस्ति। संस्थया स्वीय ई-मेल-सन्देशे विधिक-कारणानां कारणात् अस्थायी-कार्यनिरोधः कृतः इति उक्तम्।

तृणमूल कांग्रेस दलेन आधिकारिकरूपेण उक्तं यत् प्रचार-अभियानं नियोजित-योजनानुसारं निर्विघ्नं प्रवर्तते, काचित् अपि बाधा न जाता। तथापि राजनैतिकवृत्तेषु मन्यते यत् आई-पैकस्य अस्थायी-निवृत्त्या निर्वाचन-परिस्थितिषु कश्चित् प्रभावः सम्भवितुम् अर्हति।

हिन्दुस्थान समाचार