Enter your Email Address to subscribe to our newsletters


नव दिल्ली, 20 अप्रैलमासः (हि.स.)।अजीत डोभालः सऊदी-अरबदेशस्य यात्रायां गत्वा रविवासरे रियाद नगरं प्राप्तवान्।
विमानस्थले तस्य स्वागतं भारतस्य राजदूतः सुहेल खान तथा सऊदी-अरबस्य विदेशमन्त्रालये राजनीतिककार्यविभागस्य उपमन्त्री सऊद अल सती कृतवन्तौ।
सऊदी-अरबे स्थितं भारतस्य दूतावासः “एक्स” इति सामाजिकमाध्यमे सूचितवान् यत् अजीत डोभालः १९ एप्रिल् दिने रियादनगरस्य आधिकारिकयात्रां कृतवान्।
अनन्तरं सः सऊदी-अरबस्य ऊर्जा-मन्त्री अब्दुलअज़ीज़ बिन सलमान, विदेशमन्त्री फैसल बिन फरहान तथा राष्ट्रियसुरक्षापरामर्शको मुसाएद अल ऐबान इत्येतैः सह समागमं कृतवान्।
एतेषु सभासु उभयोः पक्षयोः मध्ये भारत-सऊदी-अरबयोः द्विपक्षीयसम्बन्धान् अधिकं सुदृढीकर्तुं बलं दत्तम्।
तथा च पश्चिम-एशियाक्षेत्रे प्रवर्तमानः संघर्षः, क्षेत्रीय-परिस्थितिः, परस्परहितसम्बद्धाः अन्ये विषयाः अपि चर्चिताः।
---------------
हिन्दुस्थान समाचार