Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 20 अप्रैलमासः (हि.स.)।
नरेन्द्र मोदिना उक्तं यत् कृषिः अस्माकं समृद्धेः आधारः अस्ति, तथा कृषकभ्रातरः भगिन्यः च देशस्य अन्नदातारः सन्ति। तेन उक्तं यत् तेषां कठोरपरिश्रमः समर्पणं च देशस्य प्रगतिं सुनिश्चितं करोति।
प्रधानमन्त्री मोदी इत्यनेन सोमवासरे सामाजिकमाध्यमे X इत्यत्र लेखं प्रकाशित्य एकं संस्कृतसुभाषितं साझीकृतम्—
“कृषिर्धन्या कृषिर्मेध्या जन्तूनां जीवनं कृषिः।
अन्नदः सर्वदश्चैव तस्माच्छ्रेष्ठतरो हि सः॥”
अस्य सुभाषितस्य भावार्थः अस्ति यत् कृषिः धनप्रदा अस्ति, बुद्धिं पवित्रां करोति, सर्वेषां प्राणिनां जीवनस्य आधारः च अस्ति। यः कृषकः अन्नं उत्पाद्य जगतः पालनं करोति, सः वस्तुतः सर्वेषां सर्वं ददाति। यतः अन्नं विना अन्यत् किमपि दानं वस्तु वा उपयोगी न भवति, अतः कृषिकर्म करणारा कृषकः सर्वेभ्यः श्रेष्ठः मन्यते।
---------------
हिन्दुस्थान समाचार