Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 20 अप्रैलमासः (हि.स.)।
नरेन्द्र मोदी बसवजयन्त्याः अवसरम् उपलक्ष्य जगद्गुरु बसवेश्वर प्रति श्रद्धांजलिं समर्पितवान्।
सः सोमवासरे “एक्स” इति सामाजिकमाध्यमे उक्तवान् यत् बसवजयन्त्याः विशेषे अवसर उपलक्ष्य सः जगद्गुरु बसवेश्वरं तथा तेषां अमर-उपदेशान् प्रति श्रद्धांजलिम् अर्पयति।
तेन उक्तं यत् बसवेश्वरस्य न्यायपूर्ण-समाजस्य दृष्टिः तथा जनान् सशक्तीकर्तुं तेषां दृढाः प्रयासाः अस्मान् सदा प्रेरयिष्यन्ति।
उल्लेखनीयं यत् जगद्गुरु बसवेश्वरः द्वादश-शताब्द्याः महान् दार्शनिकः समाजसुधारकः च आसीत्।
सः न्यायपूर्ण-समतामूलक-समाजस्य दृष्ट्या प्रसिद्धः आसीत्।
तेन जातिव्यवस्था न स्वीकृता, अपि च “अनुभव-मण्डप” इति संस्थानं स्थापितम्, यत् समानतायाः प्रतीकं अभवत्।
तस्य दर्शनं “कायकवे कैलास” (कार्य एव ईश्वरपूजा अस्ति) इति सिद्धान्ते आधारितम् आसीत्, तथा सः लिङ्गायत-धर्मस्य प्रवर्तकः इति मन्यते।
---------------
हिन्दुस्थान समाचार