Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 20 अप्रैलमासः (हि.स.)।अधुना वैधयूनिकदिव्याङ्गतापरिचयपत्रं (यूडीआईडी) धारयन्तः दिव्याङ्गजनाः मेल तथा एक्सप्रेस रेलयानयोः दिव्याङ्गजनानां कृते आरक्षितेषु अनारक्षितेषु च कोचेषु यात्रा कर्तुं शक्नुवन्ति। रेलमन्त्रालयस्य अनुसारं, सामाजिकन्यायअधिकारिता मन्त्रालयस्य अन्तर्गतस्य दिव्याङ्गजनसशक्तिकरणविभागेन (डीईपीडब्ल्यूडी) निर्गतं वैधं यूडीआईडीपत्रं धारयन्तः तथा च रेलयानस्य रियायतीकिरायासुविधायाः पात्राः दिव्याङ्गजनाः वैधयात्रानुज्ञया सह सेकण्ड क्लास लगेज कम ब्रेक वैन (एसएलआरडी) तथा लगेज कम सेकण्ड क्लास लगेज कम ब्रेक वैन (एलएसएलआरडी) इत्येषु प्रकोष्ठेषु वैधयात्रिकाः इति मन्यन्ते।
रेलप्रशासनेन अपि स्पष्टं कृतं यत् दिव्याङ्गजनानां कृते निर्दिष्टेषु एतेषु कोचेषु अनधिकृतरूपेण यात्रा कुर्वन्तः यात्रिकाः विरुद्धं रेलवे अधिनियम १९८९ इत्यस्य प्रावधानानुसारं कठोरकार्यवाही क्रियते। अस्य उद्देश्यं एतत् यत् वास्तविकलाभार्थिनः विना कस्यचित् असुविधां एतासां सुविधानां लाभं प्राप्नुयुः।
रेलमन्त्रालयेन सर्वेषु क्षेत्रीयरेलमण्डलेषु निर्देशाः दत्ताः यत् ते सम्बद्धाधिकारिणः प्रति आवश्यकदिशानिर्देशान् निर्गत्य एतेषां प्रावधानानां प्रभावीकार्यान्वयनं सुनिश्चितयन्तु।
उल्लेखनीयम् अस्ति यत् दिव्याङ्गजनपरिचयपत्रं, यत् ई टिकटिंग फोटो परिचयपत्रम् (ईपीआईसीएस) इति अपि कथ्यते, दिव्याङ्गयात्रिकेभ्यः रेलयात्रायां रियायतिं प्राप्तुं प्रदीयते। एतत् पत्रं वैधदिव्याङ्गताप्रमाणपत्रस्य आधारेण निर्गच्छति, यस्मिन् केषाञ्चित् श्रेणीषु यूडीआईडीपत्रम् अपि मान्यं भवति। अस्य कृते आवेदनं भारतीयरेलयानस्य दिव्याङ्गजनपोर्टल अथवा केन्द्रसरकारस्य सेवापटलस्य माध्यमेन कर्तुं शक्यते।
---------------
हिन्दुस्थान समाचार