भारतस्य परम्परामवगंतुं संस्कृतम् अनिवार्यम् - डॉ. मोहन भागवतः
नई दिल्ली में संस्कृत भारती के केन्द्रीय कार्यालय का उद्घाटन
Mohan Bhagwat


नवदिल्ल्यां संस्कृत भारत्याः केन्द्रीय कार्यालयस्य उद्घाटनम्

नव दिल्ली, 20 अप्रैलमासः (हि.स.)।

मोहन भागवतो, राष्ट्रिय-स्वयंसेवक-सङ्घस्य सरसंघचालकः, संस्कृत-वाणीं मनुष्यस्य कदापि न क्षीयमानम् आभूषणम् इति अवदत्।

तेन उक्तं यत् संस्कृतं केवलं भाषा न, अपि तु भारतस्य प्राचीन-परम्परायाः, ज्ञानस्य, जीवन-दृष्टेः च आधारशिला अस्ति। संस्कृतस्य माध्यमेन एव भारतस्य सांस्कृतिक-धरोहरः सम्यक् अवगन्तुं संवर्धयितुं च शक्यते।

सः सोमवासरे पंडित दीनदयाल उपाध्याय मार्ग स्थिते संस्कृत भारती-संस्थायाः केन्द्रीय-कार्यालयस्य ‘प्रणव’ इत्यस्य उद्घाटन-समये एतानि विचारान् व्यक्तवान्।

अक्षय-तृतीया-प्रातःकाले शुभ-मुहूर्ते विधिविधानपूर्वकं कार्यालयस्य उद्घाटनानन्तरं उपस्थितजनसमूहं सम्बोधयन् सः एतत् क्षणं अत्यन्तं शुभं प्रेरणादायकं च इति अवदत्।

तेन उक्तं यत् अस्मिन् दिने आरब्धानि कार्याणि अक्षयानि भवन्ति, अतः एषः कार्यालयः संस्कृत-प्रसारे दीर्घकालीनां भूमिकां निर्वहिष्यति।

उल्लेखनीयं यत् ‘प्रणव’ इति नाम सृष्टेः मूल-नादस्य प्रतीकः अस्ति।

तेन स्पष्टं कृतं यत् भवनानि संसाधनानि च कार्यस्य कारणानि भवन्ति, न तु कार्यं तैः एव सञ्चाल्यते। कार्यकर्तॄणां निष्ठा समर्पणं च एव कस्यचित् संस्थायाः वास्तविक-शक्तिः अस्ति।

कार्यालयस्य निर्माणं कार्यस्य प्रगतिं सूचयति, किन्तु तत् साधनरूपेण एव दृष्टव्यम्, न तु उद्देश्यरूपेण।

तेन उक्तं यत् भारतं केवलं भौगोलिक-एककं न, अपि तु एकः जीवन्-परम्परा अस्ति। एतां परम्परां अवगन्तुं संवर्धयितुं च संस्कृत-ज्ञानम् अनिवार्यम् अस्ति।

संस्कृत-भारत्याः कार्यं केवलं भाषाशिक्षणं न, अपि तु भारतीय-संस्कृतेः मूल्यनां च समाजे प्रतिष्ठापनम् अस्ति।

स्वानुभवान् सहकुर्वन् सः उक्तवान् यत् संस्कृतं कठिनम् इति मतिः केवलं भ्रमः अस्ति।

भाषा-अध्ययनस्य सर्वसुलभः उपायः संभाषणम् एव। संस्कृत-भारत्याः द्वारा सञ्चालिताः संभाषण-शिविराः अल्प-काले एव जनानां मध्ये संस्कृत-रुचिं जागरितवन्तः, एतत् कार्यं च अग्रे अपि वर्धनीयम्।

स्वस्य भाषणे सः उक्तवान् यत् संस्कृतं भारतस्य सर्वासां भाषाणां संयोजिका कड़ी अस्ति। प्रत्येकस्य भारतीय-भाषायां संस्कृत-शब्दाः सन्ति, अतः एषा भाषा एकतायाः समन्वयस्य च आधारः भवति।

संस्कृत-प्रसारः अन्याः भाषाः दुर्बलाः न करोति, अपि तु ताः समृद्धाः करोति।

तेन कार्यकर्तॄभ्यः अपेक्षा व्यक्ता यत् एषः कार्यालयः संस्कृत-संभाषणस्य केन्द्रं भवेत्, यत्र आगच्छन् प्रत्येकः जनः भाषां ज्ञातुं तया सह सम्बन्धं स्थापयितुं च प्रेरितः भवेत्।

तथा च उक्तं यत् एवं वातावरणं निर्मीयताम्, येन अधिकाधिकाः जनाः संस्कृतेन सम्बध्येरन् तथा एषा भाषा पुनः जन-जनस्य भाषा भवेत्।

अन्ते सः विश्वासं व्यक्तवान् यत् कार्यकर्तॄणां प्रयासैः संस्कृत-भारत्याः एतत् कार्यं निरन्तरं विस्तरं प्राप्य स्वलक्ष्यं नूनं साधयिष्यति।

अस्मिन् अवसरे रमेश कुमार पाण्डेयः तथा प्रणीव कान्त उपस्थितौ आस्ताम्। प्रस्ताविका जयप्रकाशगौतमद्वारा प्रस्तुताऽभवत्।

---------------

हिन्दुस्थान समाचार