दक्षिण कोरियायाः राष्ट्रपतिः अगृह्णात् राष्ट्रपति भवने स्वागतं, राजघाटे महात्मा गांधिनेऽददात् श्रद्धांजलिम्
नवदिल्ली, 20 अप्रैलमासः (हि.स.)।भारतागते दक्षिणकोरियादेशस्य राष्ट्रपतिः ली जे म्युंग सोमवासरे राष्ट्रपति भवन अग्रभागे औपचारिकेन विधिना अभ्यर्चितः। द्रौपदी मुर्मु तथा नरेन्द्र मोदी तं पारम्परिकरीत्या अभिनन्दितवन्तौ। राष्ट्रपतिः ली म्युंग महोदयः १
राष्ट्रपति भवन के अग्रभाग में आयोजित औपचारिक समारोह में राष्ट्रपति द्रौपदी मुर्मु और प्रधानमंत्री नरेंद्र मोदी ने भारत दौरे पर आए दक्षिण कोरिया के राष्ट्रपति ली जे-म्युंग का पारंपरिक तरीके से स्वागत किया


राष्ट्रपति भवन के अग्रभाग में आयोजित औपचारिक समारोह में राष्ट्रपति द्रौपदी मुर्मु और प्रधानमंत्री नरेंद्र मोदी ने भारत दौरे पर आए दक्षिण कोरिया के राष्ट्रपति ली जे-म्युंग का पारंपरिक तरीके से स्वागत किया


नवदिल्ली, 20 अप्रैलमासः (हि.स.)।भारतागते दक्षिणकोरियादेशस्य राष्ट्रपतिः ली जे म्युंग सोमवासरे राष्ट्रपति भवन अग्रभागे औपचारिकेन विधिना अभ्यर्चितः।

द्रौपदी मुर्मु तथा नरेन्द्र मोदी तं पारम्परिकरीत्या अभिनन्दितवन्तौ।

राष्ट्रपतिः ली म्युंग महोदयः १९ तः २१ एप्रिल् पर्यन्तं भारतस्य यात्रायां वर्तते।

एतत् सूचयन्ती राष्ट्रपतिः मुर्मु महोदया “एक्स” माध्यमे लिखितवती यत् दक्षिणकोरियाराष्ट्रपतिः ली म्युंग महोदयः राष्ट्रपति-भवने औपचारिकतया स्वागतं कृतम्।

विदेशमन्त्रालयस्य प्रवक्ता रंधीर जायसवाल अपि सामाजिकमाध्यमेषु उक्तवान् यत् भारत-दक्षिणकोरिया विशेष-सामरिक-सहभागिता अधिकं दृढीकरणीयम्।

अस्मात् पूर्वं राष्ट्रपतिः ली म्युंग महोदयः राजघाट गत्वा महात्मा गांधी प्रति श्रद्धांजलिं अर्पितवान्।

अस्य विषये जायसवाल महोदयः उक्तवान् यत् शान्तेः, सौहार्दस्य च उन्नत्यर्थं सः गांधीमहात्मनः प्रति सम्मानं प्रदर्शितवान् तथा अहिंसामूल्यानि आदृतवान्।

उल्लेखनीयं यत् भारत-दक्षिणकोरियोः विशेष-सामरिक-सहभागिता वर्षे २०१० आरब्धा।

अस्याः अन्तर्गतं उभौ देशौ रक्षाक्षेत्रे, व्यापारक्षेत्रे, प्रौद्योगिक्यां, अर्धचालकनिर्माणे, बैटरीउद्योगे, साइबरसुरक्षायां तथा इंडो-पैसिफिक् प्रदेशे सहयोगं वर्धयतः।

दक्षिणकोरिया भारतस्य प्रमुखः व्यापारसहभागी अस्ति तथा उभयोः मध्ये द्विपक्षीयः व्यापारः त्रिंशत्-अर्बुद-डॉलराधिकः अस्ति।

अस्मिन् काले उच्चस्तरीयवार्ताः भविष्यन्ति, यस्मिन् व्यापारः, रक्षा-सहयोगः, प्रौद्योगिकी-हस्तांतरणम् तथा इंडो-पैसिफिक् क्षेत्रे शान्तिः स्थैर्यं च इत्यादयः विषयाः चर्चायां भविष्यन्ति।

---------------

हिन्दुस्थान समाचार