Enter your Email Address to subscribe to our newsletters

मीरजापुरम्, 20 अप्रैलमासः (हि.स.)।अनुप्रिया पटेलः, अपना दल (एस)-पक्षस्य राष्ट्रिय-अध्यक्षा तथा केन्द्रीय-स्वास्थ्य-परिवार-कल्याण-रसायन-उर्वरक-राज्यमन्त्री, सोमवासरे मीरजापुर-नगरे सरदार पटेल चौराहा-स्थिते सांसद-जनसंपर्क-कार्यालये जनपदस्य विभिन्न-प्रदेशेभ्यः आगतान् सामान्य-जनान्, एनडीए-पदाधिकरिणः कार्यकर्तॄन् च मिलितवती।
अस्मिन् काले मन्त्रिणी जनानां समस्याः गम्भीरतया श्रुतवती तथा तेषां शीघ्र-समाधानार्थं सम्बद्ध-अधिकारीन् आवश्यक-निर्देशान् दत्तवती।
सा उक्तवती यत् जनसेवा एव तस्याः प्रमुखः लक्ष्यः अस्ति, तथा जनानां समस्याः समयबद्ध-रीत्या समाधानं कर्तुं तस्याः प्राथमिकता अस्ति।
कार्यक्रमे एनडीए-पक्षस्य वरिष्ठ-पदाधिकरिणः कार्यकर्तारः च क्षेत्रीय-विकास-संबद्ध-विषयान् अपि चर्चितवन्तः तथा शासनस्य जनकल्याणकारी-योजनाः प्रत्येकं पात्रं जनं प्रति प्रापयितुं बलं दत्तवन्तः।
अस्मिन् अवसरे बहुसंख्यकाः सामान्य-नागरिकाः पक्ष-पदाधिकरिणः च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार