Enter your Email Address to subscribe to our newsletters

लखनऊ, 20 अप्रैलमासः (हि. स.)।योगी आदित्यनाथ सोमवासरे अत्र कालिदास मार्ग स्थिते स्वकीय-शासकीय-निवासे “जनता-दर्शन” कार्यक्रमे जनानां समस्याः अशृणोत्।
सः जनानां शिकायताः श्रुत्वा अधिकारिभ्यः आवश्यक-निर्देशान् अदात्। जनसमस्यानां शीघ्रं प्राथमिकतया च निवारणार्थं अपि निर्देशाः प्रदत्ताः।
बहुसंख्यकाः जनाः स्व-समस्याभिः सह तत्र आगतवन्तः।
---------------
हिन्दुस्थान समाचार