लखीमपुर खीर्याः पर्यटन विकासस्य 7 परियोजनाभ्यः 483 लक्षमितो राशिः स्वीकृतः
धार्मिक स्थलेषु मूलभूतसुविधानां विस्तारेण स्थानीय स्तरे जीविकाभ्यो मिलिष्यति वृद्धिः -जयवीर सिंहः लखीमपुर खीरी, 20 अप्रैलमासः (हि.स.)।उत्तरप्रदेश-पर्यटन-विभागेन वित्तीयवर्षे 2025–26 मध्ये राज्य-योजनान्तर्गत लखीमपुर-खीरी-जनपदस्य विविध-विधानसभा-क्षे
योजना का बैनर


धार्मिक स्थलेषु मूलभूतसुविधानां विस्तारेण स्थानीय स्तरे जीविकाभ्यो मिलिष्यति वृद्धिः -जयवीर सिंहः

लखीमपुर खीरी, 20 अप्रैलमासः (हि.स.)।उत्तरप्रदेश-पर्यटन-विभागेन वित्तीयवर्षे 2025–26 मध्ये राज्य-योजनान्तर्गत लखीमपुर-खीरी-जनपदस्य विविध-विधानसभा-क्षेत्रेषु पर्यटन-विकास-परियोजनानां कृते 662.21 लक्ष-रूप्यकाणां प्रशासकीय-स्वीकृतेः सापेक्षतया 7 परियोजनानां कृते 483 लक्ष-रूप्यकाणां धनराशिः अनुमोदिता अस्ति। अस्य कार्यस्य कृते यूपीएसटीडीसी कार्यदायी-संस्था नामिता अस्ति। कार्यदायी-संस्थायै निर्देशः दत्तः यत् परियोजनानां कार्याणि गुणवत्तया समयबद्धतया च सम्पन्नानि करोतु। एषा सूचना सोमवासरे सूचना-विभागेन निर्गत-प्रेस-विज्ञप्त्या प्रदत्ता।

सूचनायां उक्तं यत् प्रदेशस्य पर्यटन-संस्कृति-मन्त्री जयवीर-सिंहेन लखीमपुर-जनपदस्य मोहम्मदी-विधानसभा-क्षेत्रे महाभारत-कालीनं पाण्डवैः स्थापितं ओछवानाथ-शिव-मन्दिरस्य पर्यटन-विकास-सौन्दर्यीकरणार्थं 111 लक्ष-रूप्यकाणि, निघासन-विधानसभा-क्षेत्रे निघासन-तहसीलस्य ढखेरवा-चौराहात् अग्रे अन्तर्वेद-नाम प्राचीन-स्थलस्य पर्यटन-विकासाय 81 लक्ष-रूप्यकाणि, तथा गोला-गोकरन-नाथ-स्थितस्य चौसन्दे-बाबा-स्थानस्य पर्यटन-विकासाय 96 लक्ष-रूप्यकाणि स्वीकृतानि।

तथैव लखीमपुर-खीरी-सदर-विधानसभा-क्षेत्रे अटकोनवा-स्थितस्य माता-बेलहिया-धाम्नः पर्यटन-विकासाय 60 लक्ष-रूप्यकाणि, पलिया-विधानसभा-क्षेत्रे सम्पूर्णानगर-स्थितस्य बालाजी-मन्दिरस्य पर्यटन-विकासाय 20 लक्ष-रूप्यकाणि, श्रीनगर-विकासखण्डे लखीमपुर-खीरी-जनपदे प्राचीन-देवकली-तीर्थ-मन्दिरस्य पर्यटन-विकासाय 70 लक्ष-रूप्यकाणि, तथा कस्ता-स्थितस्य बाबा-गौरीशंकर-बहजम्-स्थानस्य पर्यटन-विकासाय 45 लक्ष-रूप्यकाणि स्वीकृतानि।

जयवीर-सिंहेन उक्तं यत् प्रदेशस्य प्राचीन-धार्मिक-स्थलानां पर्यटन-विकासस्य अन्तर्गतं सौन्दर्यीकरणेन सह श्रद्धालूनां कृते मूलभूत-सुविधानां उपलब्ध्यर्थं परियोजनाः अनुमोदिताः। अस्य मुख्य-उद्देश्यं पर्यटन-वृद्धिः, सांस्कृतिक-पुनरोद्धार-कार्यक्रमस्य प्रवर्तनं, तथा धार्मिक-पर्यटनद्वारा श्रद्धालूनां संयोजनम् अस्ति। अनेन स्थानीय-स्तरे रोजगार-अवसराः वर्धन्ते तथा राज्य-सर्वकाराय राजस्व-प्राप्तिः अपि भवति।

---------------

हिन्दुस्थान समाचार