सूरततः बंगालं यावत् ‘वोटर स्पेशल’रेलयानम् : ममता बनर्जये संस्थितिं दातुं भाजपादलस्य अनुपमा रणनीतिः
सूरतम्, 20 अप्रैलमासः (हि.स.)। पश्चिम बंगाल विधानसभा-निर्वाचनस्य रणभूमौ ममता बनर्जेः कृते कठोरप्रतिस्पर्धां दातुं भारतीय जनता पार्टी दलम् एकां विशिष्टां आक्रामकां च रणनीतिं स्वीकृतवान्। एषा रणनीतिः केवलं बंगालप्रदेशे सीमिता नास्ति, अपि तु सहस्रकि
सूरत से बंगाल तक ‘वोटर स्पेशल’ ट्रेन


सूरतम्, 20 अप्रैलमासः (हि.स.)।

पश्चिम बंगाल विधानसभा-निर्वाचनस्य रणभूमौ ममता बनर्जेः कृते कठोरप्रतिस्पर्धां दातुं भारतीय जनता पार्टी दलम् एकां विशिष्टां आक्रामकां च रणनीतिं स्वीकृतवान्। एषा रणनीतिः केवलं बंगालप्रदेशे सीमिता नास्ति, अपि तु सहस्रकिलोमीटरदूरस्थात् सूरत नगरात् अपि सुदृढता प्राप्नोति।

रविवासरे रात्रौ सूरतनगरस्य उधना रेलवे स्टेशन इत्यस्य पञ्चमसंख्यक-पट्टिकायां देशभक्तेः राजनैतिकोत्साहस्य च अद्वितीयः संगमः दृष्टः। पश्चिम बंगालराज्ये मतदानार्थं १३०० अधिकाः मतदातारः “वोटर्स स्पेशल” नाम्नि रेलयानमध्ये उपविश्य प्रस्थितवन्तः। यात्रिकाणां हस्तेषु तिरङ्गध्वजः आसीत्, सम्पूर्णं स्थानकं “वन्दे मातरम्” “जय श्रीराम” इति घोषैः निनादितम्।

अधुना भारतीय जनता पार्टी दलस्य दृष्टिः पश्चिम बंगालराज्ये केन्द्रिता अस्ति। सूरतनगरे वसतां लक्षशः बाङ्गाली-श्रमिकाणां मतदानार्थं स्वराज्यं प्रेषणाय दलस्य तथा “सूरत बंगाली समाज” इत्यस्य संयुक्तेन विशेष-अभियानम् आरब्धम्। अस्य योजनायाः अन्तर्गतं चत्वारि विशेष-रेलयानानि उपयुज्य प्रायः ५००० मतदातारः निःशुल्करूपेण कोलकाता नगरं प्रापयिष्यन्ति।

प्रथमं रेलयानं पूर्वमेव प्रस्थितम्, द्वितीयं तु २४ एप्रिल् दिने सूरतनगरात् निर्गमिष्यति। सर्वाणि रेलयानानि प्रत्यक्षतया कोलकाता नगरं गमिष्यन्ति, येन यात्रिकाणां काचित् अपि असुविधा न भवेत्।

“परिवर्तन यात्रा” इत्यस्य संकल्पः अपि अस्यां योजनायां प्रमुखः अस्ति। सूरत बंगाली समाजस्य अग्रणी श्रीकान्त राउत इत्यनेन उक्तं यत् एषा समग्र-प्रयत्नः “परिवर्तन यात्रा” इत्यस्य अंशः अस्ति। तस्य वचनम् — सूरततः गच्छन्तः १८०० जनाः केवलं यात्रिकाः न सन्ति, अपि तु १८०० मतानि सन्ति, ये परिवर्तनं कर्तुं समर्थानि भवन्ति।

अस्य अभियानस्य मुख्यः उद्देशः तेषां श्रमिकाणां मतदानाधिकारस्य सुनिश्चितिः अस्ति, ये आर्थिकदौर्बल्यात् अथवा यात्राटिकटाभावात् स्वगृहं गन्तुं न शक्नुवन्ति।

सूरतनगरे प्रायः २.५ लक्षाधिकाः बाङ्गालीजनाः वसन्ति, ये मुख्यतया हीरक-आभरण-वस्त्र-उद्योगेषु कार्यं कुर्वन्ति। अयं वर्गः एकः विशालः प्रभावशाली च मतदाता-समूहः मन्यते। निर्वाचनकाले महत् यात्राटिकटमूल्यं तथा रेलयानानां संमर्दकारणतः एते जनाः स्वगृहं गत्वा मतदानं कर्तुं न शक्नुवन्ति।

एतस्य समस्यायाः समाधानार्थं भारतीय जनतादलम् एतां विशेष-रणनीतिं निर्मितवती। दलस्य अपेक्षा अस्ति यत् सूरततः गच्छन्तः एते सहस्रशः मतदातारः न केवलं स्वयम् मतदानं करिष्यन्ति, अपि तु स्वपरिवारेषु ग्रामेषु च दलस्य पक्षे अनुकूलं वातावरणं निर्मास्यन्ति।

---------------

हिन्दुस्थान समाचार