कार्यकर्तारो निर्मातारःआसन् कर्मयोगी भंवरलाल जी मल्लावतः - ब्रह्मानंद बंगः
कोलकाता, 20 अप्रैलमासः (हि.स.)। भंवरलाल मल्लावत सेवा केन्द्रम् (सेवा भारती-अन्तर्गतं) स्वस्य सप्तविंशतितमं स्थापना-दिवसं समारभत। कालीकृष्ण-टैगोर-मार्गस्थिते संस्थाया कार्यालये आयोजितस्य कार्यक्रमस्य प्रारम्भे अतिथयः दीपप्रज्वलनं कृत्वा भंवरलाल-महाभ
भंवरलाल मल्लावत सेवा केंद्र के 27 वें स्थापना दिवस पर आयोजित कार्यक्रम में उपस्थित महानुभव


कोलकाता, 20 अप्रैलमासः (हि.स.)। भंवरलाल मल्लावत सेवा केन्द्रम् (सेवा भारती-अन्तर्गतं) स्वस्य सप्तविंशतितमं स्थापना-दिवसं समारभत। कालीकृष्ण-टैगोर-मार्गस्थिते संस्थाया कार्यालये आयोजितस्य कार्यक्रमस्य प्रारम्भे अतिथयः दीपप्रज्वलनं कृत्वा भंवरलाल-महाभागस्य चित्रे पुष्पाणि अर्पितवन्तः।

डॉ. विजय-हरभजनक-महाभागस्य अध्यक्षतायां आयोजिते कार्यक्रमे भागसंघचालकः ब्रह्मानन्द-बंग-महाभागः भंवरलाल-मल्लावत-महाभागस्य प्रेरणादायक-व्यक्तित्वं प्रणम्य अवदत् यत् भंवरलालः अस्मादृशानां शतशः कार्यकर्तॄणां निर्माता मार्गदर्शकश्च आसीत्।

स्वागत-भाषणं कुर्वन् संस्थाया अध्यक्षः रामगोपाल-सूंघा-महाभागः अवदत् यत् कर्मयोगी भंवरलाल-मल्लावतः सेवाया पर्यायः आसीत्।

भागीरथ-चाण्डकः एक्यूप्रेशर-चिकित्सापद्धतेः महत्त्वं प्रकाशयन् अवदत् यत् सेवाभावेन कृतः उपचारः सफलः भवति तथा च सेवकाय अपि फलदः भवति।

महावीर-बजाजः अक्षय-तृतीया-पर्वणः महत्त्वं निरूपितवान्। संयोजकः अरुणप्रकाश-मल्लावत-महाभागः कार्यक्रमस्य संचालनं कृतवान्। सः चिकित्सकानां सतत-सेवाभावं प्रशंसितवान्।

डॉ. सुरेश-गुप्तः सेवा-केन्द्रस्य गतिविधीनां विषये प्रकाशं दत्तवान्। अस्मिन् अवसरि डॉ. प्रदीप-अग्रवाल, बंशीधर-शर्मा, सत्यनारायण-मोरीजावाला-महाभागाः अपि स्वविचारान् व्यक्तवन्तः।

समापनात् पूर्वं संस्थाया स्थापना-कालस्य सम्बद्धौ दिवंगतौ डॉ. मनमोहन-लखाणी तथा डॉ. शरतचन्द्र-मन्त्री महाभागौ श्रद्धया स्मृतौ, तयोः आत्मशान्त्यर्थं च एकमिनिटपर्यन्तं मौनं धारितम्।

उल्लेखनीयं यत् सेवाया पर्यायः कर्मयोगी भंवरलाल-मल्लावतः अल्पायुषि एव देहत्यागं कृतवान्। सः बाल्यकालात् एव राष्ट्रीय-स्वयंसेवक-संघस्य स्वयंसेवकः आसीत् तथा संघे विविधदायित्वानि निर्वह्य महानगरस्य अन्यासु संस्थासु यथा कलकत्ता-पिंजरापोल-सोसाइटी, मारवाड़ी-रिलीफ-सोसाइटी इत्यादिषु संलग्नः भूत्वा विविधाः सेवा-गतिविधयः संचालितवान्।

तस्य स्मृत्यर्थं सञ्चालिते अस्मिन् सेवा-केन्द्रे सू-जोक, एक्यूप्रेशर, एक्यूपंक्चर इत्यादि पद्धतिभिः रोगिणां निःशुल्क-चिकित्सा निरन्तरं क्रियते।

अस्मिन् अवसरे स्वर्गीयः जुगलकिशोर-जैथलिया, सत्यनारायण-खरकिया, जगदीशप्रसाद-शाह-प्रभृतयः वरिष्ठ-सामाजिक-कार्यकर्तारः अपि श्रद्धया स्मृताः।

कार्यक्रमे अनिल-मल्लावत, संजय-रस्तोगी, गोविन्द-जैथलिया, भागीरथ-सारस्वत, तेजबहादुर-सिंह, राजकुमार-भाला, मनोज-काकड़ा, दीपक-कच्छावा, डॉ. रश्मि-काजरिया, डॉ. सुनीता-राठी, गीता-सिन्हा, सरिता-जायसवाल, गायत्री-बजाज, सीमा-सावनसूखा, निलांजन-चटर्जी-प्रभृतयः सामाजिक-कार्यकर्तारः उपस्थिताः आसन्।---------------

हिन्दुस्थान समाचार