मुख्यमंत्री योगी दत्तवान् आनुकूल्यम् : विना कृषकपंजीयनेनापि सर्वकारी क्रय केंद्रेषु गोधूमं विक्रेतुं शक्नुवन्ति कृषकाः
लखनऊ, 20 अप्रैलमासः (हि.स.)।योगी आदित्यनाथः, उत्तर प्रदेश-राज्यस्य मुख्यमन्त्री, गोधूम-क्रयसम्बन्धे महत्त्वपूर्णं निर्णयं कृत्वा कृषकेभ्यः रक्षणं प्रदत्तवान्। अधुना कृषकाः “फार्मर-रजिस्ट्री” विना अपि स्वस्य गोधूमं सरकारी-क्रय-केन्द्रेषु विक्रेतुं
मुख्यमंत्री योगी आदित्यनाथ


लखनऊ, 20 अप्रैलमासः (हि.स.)।योगी आदित्यनाथः, उत्तर प्रदेश-राज्यस्य मुख्यमन्त्री, गोधूम-क्रयसम्बन्धे महत्त्वपूर्णं निर्णयं कृत्वा कृषकेभ्यः रक्षणं प्रदत्तवान्।

अधुना कृषकाः “फार्मर-रजिस्ट्री” विना अपि स्वस्य गोधूमं सरकारी-क्रय-केन्द्रेषु विक्रेतुं शक्नुवन्ति।

मुख्यमन्त्री सोमवासरे सर्वेषां जिलाधिकारिणः प्रति त्वरित-प्रभावेन अस्य निर्णयस्य कार्यान्वयनाय निर्देशान् दत्तवान्, येन कृषकाः पूर्ववत् सुगमतया स्वस्य उत्पादनं विक्रेतुं शक्नुवन्ति।

विदितम् अस्ति यत् पूर्वं सरकारी-क्रय-केन्द्रेषु गोधूम-विक्रयार्थं “फार्मर-रजिस्ट्री” करणं अनिवार्यम् आसीत्।

अधुना तु राज्य-सरकारेण एषा अनिवार्यता निरस्ता।

अतः अधुना कृषकाः “फार्मर-रजिस्ट्री” विना अपि सर्वकारी-क्रय-केन्द्रेषु गोधूमं विक्रेतुं शक्नुवन्ति।

----------

हिन्दुस्थान समाचार