बङ्गाले प्रथम-चरणस्य निर्वाचन-प्रचारस्य कोलाहलः शान्तः, २३ अप्रैलमासे ईवीएम-यन्त्रेषु १४७८ अभ्यर्थिनां भाग्यं निबद्धं भविष्यति
कोलकातानगरम्, २१ अप्रैलमासः (हि.स.)। पश्चिम-बङ्गाल-विधानसभा-निर्वाचनस्य २०२६-वर्षस्य प्रथम-चरणस्य प्रचारः मङ्गलवासरे सायं षड्वादने समाप्तः। निर्वाचन-आयोगस्य निर्देशानुसारम् अधुना सर्वेषां दलानां दृष्टिः २३ अप्रैलमासे भविष्यमाणे मतदाने निबद्धा अस्ति
मतदान


कोलकातानगरम्, २१ अप्रैलमासः (हि.स.)। पश्चिम-बङ्गाल-विधानसभा-निर्वाचनस्य २०२६-वर्षस्य प्रथम-चरणस्य प्रचारः मङ्गलवासरे सायं षड्वादने समाप्तः। निर्वाचन-आयोगस्य निर्देशानुसारम् अधुना सर्वेषां दलानां दृष्टिः २३ अप्रैलमासे भविष्यमाणे मतदाने निबद्धा अस्ति। अस्मिन् चरणे १५२ आसन्देषु मतदानं भविष्यति, यत्र आहत्य १४७८ अभ्यर्थिनः प्रतिस्पर्धां कुर्वन्ति।

आयोगस्य अनुसारं ३.६० कोट्यधिकाः मतदातारः स्वमताधिकारं उपयोक्तुम् अर्हन्ति। निर्वाचनस्य शान्तिपूर्ण-निष्पक्ष-सम्पादनाय विस्तृता सुरक्षा-व्यवस्था कृताऽस्ति, यत्र केन्द्रीय-अर्द्धसैनिक-बलानां सहस्रशः सैनिकाः नियुक्ताः सन्ति।एतत् निर्वाचनं राज्यस्य राजनीत्याः कृते अत्यन्तं महत्त्वपूर्णः मन्यते। तृणमूल-काङ्ग्रेसः चतुर्थवारं सत्तां प्राप्तुं प्रयतते, भारतीय-जनता-पक्षः प्रथमवारं स्वबलेन सत्तां प्राप्तुम् इच्छति। भारतीय-राष्ट्रीय-काङ्ग्रेसः तथा वाम-दलानि अपि स्पर्धां त्रिकोणात्मकां कर्तुं यत्नं कुर्वन्ति।

निर्वाचन-प्रचारकाले मतदाता-सूची-पुनरीक्षणं विषये विवादः अभवत्। विपक्ष-दलैः आयोगः आलोचितः, किन्तु आयोगेन एतत् नियमित-प्रक्रिया इति स्पष्टीकृता।अधुना सर्वेषां दृष्टिः २३ अप्रैलमासे भविष्यमाणे मतदाने अस्ति, यदा जनाः राज्यस्य भविष्यदिशां निर्धारयिष्यन्ति। द्वितीय-चरणस्य मतदानं २९ अप्रैलमासे, मतगणना च ४ मईमासे भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता