Enter your Email Address to subscribe to our newsletters

हरिद्वार-नगरम्, २१ अप्रैलमासः (हि.स.)। वरिष्ठ-लेखकः, भारतीय-जनता-पक्षस्य पूर्व-राष्ट्रीय-उपाध्यक्षः तथा पूर्व-राज्यसभा-सांसदः बलबीर-पुञ्जस्य अस्थयः मङ्गलवासरे हरिद्वारे विधि-विधानेन सह गङ्गायां विसर्जिताः। कनखल-स्थिते सती-घट्टे अस्थि-विसर्जनस्य समये परिजनैः सह भाजपा-दलस्य बहवः वरिष्ठ-नेतारः उपस्थिताः आसन्।
सती-घट्टे अस्थि-कलशं वहन्तः परिजनाः सम्यक् धार्मिक-विधि-विधानेन सह गङ्गायां अस्थयः प्रवाहितवन्तः तथा तस्य आत्मनः शान्तये मोक्षाय च प्रार्थनां कृतवन्तः।
श्रद्धाञ्जलिं प्रदाय सांसदः त्रिवेन्द्रसिंह-रावतः उक्तवान् यत् बलबीर-पुञ्जः राष्ट्रवादी-चिन्तकः, प्रखर-लेखकः अनुभवी-राजनेता च आसीत्। तस्य विचारैः लेखन्या च दलाय समाजाय च निरन्तरं मार्गदर्शनं प्राप्तम्।
कैबिनेट-मन्त्री मदन-कौशिकः उक्तवान् यत् तेन राजनीतिक-सामाजिक-क्षेत्रयोः महत्त्वपूर्णं योगदानं दत्तम्, यत् सर्वदा स्मरणीयं भविष्यति।
पूर्व-राज्यसभा-सांसदः बलबीर-पुञ्जः शनिवासरे ७६ वर्षस्य वयसि निधनं गतः।
हिन्दुस्थान समाचार / अंशु गुप्ता