मुख्यमंत्री डॉ. यादवो राष्ट्रिय सिविल सेवा दिवसे दत्तवान् शुभकामनाः
भाेपालम्, 21 अप्रैलमासः (हि.स.)। अद्य मङ्गलवासरे राष्ट्रियः सिविलसेवादिवसः अस्ति। अस्य अवसरस्य निमित्तेन मध्यप्रदेशस्य मुख्यमन्त्री डॉ मोहन यादव राष्ट्रियसिविलसेवादिवसे लोकसेवकान् शुभाशिषः प्रदत्तवान्। मुख्यमन्त्री डॉ यादवः सोशलमीडिया “एक्स” इत्
मुख्यमंत्री डॉ. यादव ने राष्ट्रीय सिविल सेवा दिवस पर दी शुभकामनाएं


भाेपालम्, 21 अप्रैलमासः (हि.स.)।

अद्य मङ्गलवासरे राष्ट्रियः सिविलसेवादिवसः अस्ति। अस्य अवसरस्य निमित्तेन मध्यप्रदेशस्य मुख्यमन्त्री डॉ मोहन यादव राष्ट्रियसिविलसेवादिवसे लोकसेवकान् शुभाशिषः प्रदत्तवान्।

मुख्यमन्त्री डॉ यादवः सोशलमीडिया “एक्स” इत्यस्मिन् स्वसन्देशे उक्तवान्— “राष्ट्रीयसिविलसेवादिवसस्य हार्दिकाः अभिनन्दनाः शुभाशयाश्च। लोकसेवकानां कार्यकुशलता सेवाभावश्च जनजनस्य जीवने सकारात्मकपरिवर्तनं आनयतु। यूयं सर्वे सेवापथे सफलाः भवत, इति मम मंगलकामना अस्ति।”

गौरवपूर्णं यत् प्रतिवर्षं अप्रैलमासस्य एकविंशतितमे दिने ‘सिविलसेवादिवसः’ इति रूपेण आचर्यते। अयं दिवसः सिविलसेवकानां कृते नागरिकहिताय स्वयम् पुनः समर्पयितुं तथा सार्वजनिकसेवायां कार्ये च उत्कृष्टतायाः प्रति स्वप्रतिबद्धतां नवीकर्तुं एकः महत्वपूर्णः अवसरः अस्ति।

हिन्दुस्थान समाचार