Enter your Email Address to subscribe to our newsletters

विश्वे पर्यावरणसंरक्षणस्य तथा प्रकृतेः प्रति जागरूकतां वर्धयितुं प्रतिवर्षं अप्रैलमासस्य द्वाविंशतितमे दिने “पृथ्वी दिवसः” आचर्यते। अस्य दिवसस्य उद्देश्यम् अस्ति यत् पृथ्व्यां वसन्तीनां जीवजन्तूनां, वृक्षाणां, पादपानां तथा प्राकृतिकसंपदां रक्षणार्थं जनान् प्रेरयितुम्।
पृथ्वी दिवसस्य प्रारम्भः १९७० तमे वर्षे अभवत्, यदा अमेरिकादेशस्य सीनेटरः गेलॉर्ड नेल्सन् नामकः पर्यावरणसंरक्षणविषये जनआन्दोलनं प्रारब्धवान्। अस्य पृष्ठभूमौ १९६९ तमे वर्षे कैलिफोर्नियायाः सान्ता बार्बरा इत्यत्र घटितः महत्त्वपूर्णः तैलस्रावदुर्घटनाऽभवत्, या समुद्रीजीवनाय महान् हानिकारकः अभवत्। अस्मात् घटनात् नेल्सन् महता प्रभावितः अभवत् तथा पर्यावरणविषये जनान् जागरूकान् कर्तुं संकल्पम् अकरोत्।
तस्य आह्वानेन १९७० तमे वर्षे अप्रैलमासस्य द्वाविंशतितमे दिने प्रायः द्विकोटिजनाः प्रथमपृथ्वीदिवसस्य आयोजनस्य भागिनः अभवन्, यः अनन्तरं वैश्विकआन्दोलनरूपेण परिवर्तितः। अद्य एषः दिवसः विश्वस्य १९० अधिकेषु देशेषु आचर्यते तथा पर्यावरणसंरक्षणस्य सामूहिकप्रयत्नानां प्रतीकः जातः।
अस्मिन् अवसरे विभिन्नेषु देशेषु वृक्षारोपणम्, स्वच्छताअभियानम्, जलसंरक्षणम्, जलवायुपरिवर्तनविषये जागरूकता इत्यादयः कार्यक्रमाः आयोज्यन्ते। जनाः पृथ्वीं हरितां सुन्दरां च कर्तुं तथा जैवविविधतां रक्षितुं संकल्पं कुर्वन्ति।
वर्धमाने प्रदूषणे, जलवायुपरिवर्तने तथा प्राकृतिकसंपदां अत्यधिकदोहने सति पृथ्वीदिवसस्य महत्त्वम् अधिकं वर्धितम् अस्ति। एषः दिवसः अस्मान् स्मारयति यत् आगामिनीनां पीढीनां कृते पृथ्वीं सुरक्षितां संतुलितां च रक्षितुं अस्माकं सामूहिकी जिम्मेदारी अस्ति।
---
महत्त्वपूर्णाः घटनाः
१८७० तमे वर्षे लेनिन नामकस्य जन्म अभवत्।
१९०६ तमे वर्षे यूनानदेशस्य एथेंस नगरे दशमाः ओलंपिकक्रीडाः प्रारब्धाः।
१९१५ तमे वर्षे प्रथमविश्वयुद्धकाले जर्मनसेनया प्रथमवारं विषगैसस्य उपयोगः कृतः।
१९२१ तमे वर्षे नेताजी सुभाषचन्द्र बोस इत्यनेन इंडियन सिविल सर्विसतः त्यागपत्रं दत्तम्।
१९३१ तमे वर्षे मिस्रदेशः इराकदेशेन सह शान्तिसन्धिं कृतवान्।
१९५८ तमे वर्षे आर डी कटारी भारतीयनौसेनायाः प्रथमः भारतीयप्रमुखः अभवत्।
१९७० तमे वर्षे प्रथमवारं पृथ्वीदिवसः आचरितः।
१९८३ तमे वर्षे सोयूज टी ८ नामकं अन्तरिक्षयानं पृथ्वीं प्रत्यागतम्।
१९९७ तमे वर्षे पेरूदेशे जापानदूतावासस्य घेराबन्दी समाप्ता।
२००२ तमे वर्षे पाकिस्तानदेशे पर्लहत्याकाण्डस्य न्यायप्रक्रिया आरब्धा।
२००४ तमे वर्षे उत्तरकोरियादेशे रेलयानयोः भीषणसंघर्षे बहवः जनाः हताः।
२००५ तमे वर्षे बांडुंग नगरे एशियाअफ्रीकासम्मेलनस्य आयोजनम् अभवत्।
२००८ तमे वर्षे गोपीनाथ मुण्डे स्वस्य त्यागपत्रं प्रत्याहृतवान्।
२००८ तमे वर्षे व्लादिमीर पुतिन लुडविग नोबल पुरस्कारेण सम्मानितः।
२०१० तमे वर्षे दिल्ली न्यायालयेन लाजपत नगर विस्फोटप्रकरणे दोषिणां मृत्युदण्डः निर्दिष्टः।
२०१२ तमे वर्षे लंदन मैराथन स्पर्धायां एका महिला आकस्मिकरूपेण मृतवती।
२०१६ तमे वर्षे १७० अधिकदेशैः पेरिससन्धौ हस्ताक्षराणि कृतानि।
---
जन्मानि
१७६० अकबर द्वितीयः।
१८४० जेम्स प्रिंसेपः।
१८५१ गंगारामः।
१८९१ राधाबाई सुबारायन।
१८९४ अम्मू स्वामीनाथन।
१९१४ बी आर चोपड़ा।
१९१६ कानन देवी।
१९३२ स्वामी सच्चिदानन्दः।
१९३६ पी चन्द्रशेखर राव।
१९५२ कमला प्रसाद बिसेसर।
१९६० मनोज मुकुन्द नरवणे।
१९६२ गुरुप्रसाद मोहापात्रः।
१९७४ चेतन भगतः।
---
निधनानि
१९६९ जोगेशचन्द्र चटर्जी।
१९८० मंगूरामः।
१९९६ हितेश्वर साइकिया।
२००१ महमूद अली खाँ।
२०१३ लालगुड़ी जयरामण।
२०१३ जगदीश शरण वर्मा।
२०२१ श्रवण कुमार राठौरः।
महत्त्वपूर्णाः अवसराः
विश्वपृथ्वीदिवसः।
जलसंसाधनदिवसः।
हिन्दुस्थान समाचार