Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 21 अप्रैलमासः (हि.स.)।राष्ट्रिय विज्ञान केंद्र स्थिते बुधवासरे विश्व पृथ्वी दिवस-अवसरे छात्राणां कृते ओपन-हाउस-क्विज्-कार्यक्रमस्य आयोजनं भविष्यति। संस्कृति मंत्रालय-अनुसारं अस्य वर्षस्य विषयः “अस्माकं शक्ति: अस्माकं ग्रहः” इति अस्ति, यः अस्माकं पर्यावरणस्य संरक्षण-रक्षणयोः सामूहिक-उत्तरदायित्वं प्रकाशयति।
अस्मिन् कार्यक्रमे भारतीय अंतरिक्ष अनुसंधान संगठन-अन्तरिक्ष-विभागस्य प्राध्यापकः डॉ. अमिताव सेन गुप्ता “अण्टार्कटिका-अन्वेषणम् : श्वेत-महाद्वीपस्य यात्रा” इत्यस्य विषये स्वविचारान् प्रस्तुतयिष्यति। एषः व्याख्यानः प्रातः 10 वादने आरभ्यते।
ततः अनन्तरं प्रातः 11 वादने केन्द्रे ओपन-हाउस-क्विज्-प्रतियोगिता आयोजिता भविष्यति। अस्य माध्यमेन युवा-प्रतिभागिनां पर्यावरण-विज्ञानस्य पृथिव्याः जैव-विविधतायाश्च ज्ञानस्य परीक्षणं भविष्यति।
एतत् अपि तेषु वैज्ञानिक-जिज्ञासायाः भावनां वर्धयिष्यति।
------------
हिन्दुस्थान समाचार