Enter your Email Address to subscribe to our newsletters

नवदिल्लीनगरम्, २१ अप्रैलमासः (हि.स.)। सऊदी-एयरलाइन्स-इत्यस्य सप्तमी हज-उड्डयन-संख्या एस.वी-५९०९ द्वारा त्रिचत्वारिंशत् (४३) महिलाः विना-महरम् दिल्ली-स्थितात् इन्दिरा-गान्धी-अन्ताराष्ट्रिय-विमानस्थानात् हज-कर्तव्य-सम्पादनाय मङ्गलवासरे अपराह्णे ३:१० वादने प्रस्थिताः। अस्मिन् अवसरे विमानस्थानस्य टर्मिनल-३ मध्ये दिल्ली-राज्य-हज-समितेः अध्यक्षा कौसर-जहाँ, हज-समितेः कार्यकारी-अधिकारी अशफाक-अहमद-आरफी, उप-कार्यकारी-अधिकारी मोहसिन-अली तथा अन्ये कर्मचारिभ्यः एतासां महिलानां स्वागतं कृत्वा पुष्पैः सम्मानं कृतवन्तः, ताः हज-यात्रायै प्रेषितवन्तः।
अध्यक्षा कौसर-जहाँ पत्रकारैः सह संवादं कुर्वन्ती उक्तवती यत् नरेन्द्र-मोदी-नेतृत्वे केन्द्र-सर्वकारस्य एषा प्रशंसनीया योजना अस्ति, येन समाजस्य सर्वेषां वर्गाणां कृते सुविधाः उत्पादिताः सन्ति। सा उक्तवती यत् भारत-सर्वकारस्य प्रयासेन विना-महरम् (अधिकृत-पुरुष-सहचर-विना) महिलानां हज-यात्रा न केवलं धार्मिक-महत्त्वयुक्ता, अपितु नारी-सशक्तीकरणस्य अपि महत्त्वपूर्णं उदाहरणम् अस्ति।
उल्लेखनीयं यत् अद्य दिल्लीतः हज-यात्रायै प्रस्थितासु ४३ महिलासु १२ दिल्ली-राज्यात्, २१ उत्तर-प्रदेशात्, ३ बिहार-राज्यात्, ४ जम्मू-कश्मीर-प्रदेशात्, २ मध्यप्रदेशात् तथा २ उत्तराखण्डात् सन्ति। १८ अप्रैलतः आरब्धानां हज-उड्डयनानां श्रेण्याः एतत् सप्तमम् उड्डयनम् आसीत्, यस्यान्तर्गतं आहत्य २७२१ हज-यात्रिणः हज-कर्तव्य-सम्पादनाय मदीना-नगरं प्रति प्रस्थिताः सन्ति। अद्यपर्यन्तं प्रस्थितेषु यात्रिषु १४२३ पुरुषाः तथा १२९८ महिलाः सम्मिलिताः सन्ति। अग्रिम २० मई-पर्यन्तं सऊदी-एयरलाइन्स-इत्यस्य ५४ उड्डयनानां माध्यमेन दिल्ली-राज्यसहितम् उत्तर-भारतीय-राज्येभ्यः २१,१०० अधिकाः हज-यात्रिणः पवित्र-हज-यात्रायै जेद्दा-मार्गेण मक्का-नगरं प्रति प्रस्थिताः भविष्यन्ति। अस्मिन् वर्षे दिल्लीतः प्रथम-चरणे ३१ उड्डयनानां माध्यमेन १२,२४० हज-यात्रिणः प्रस्थिताः भविष्यन्ति, द्वितीय-चरणे च २३ उड्डयनैः ८,८६० यात्रिणः प्रस्थानं करिष्यन्ति। दिल्ली-राज्यस्य हज-यात्रिणां संख्या ३,१९६ अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता