Enter your Email Address to subscribe to our newsletters



रांची-नगरम्, २१ अप्रैलमासः (हि.स.)। राज्यपालः सन्तोष-कुमार-गंगवारः मङ्गलवासरे रांची-नगरस्य लोक-भवन-स्थिते दरबार-हॉल-मध्ये झारखण्ड-उच्च-न्यायालयस्य सेवानिवृत्त-न्यायाधीशाय न्यायमूर्तये अमिताभ-कुमार-गुप्ताय झारखण्ड-राज्यस्य लोकायुक्त-पदस्य शपथं दत्तवान्। शपथ-ग्रहणानन्तरं राज्यपालः तस्मै शुभाशिषः अपि अयच्छत्।अस्मात् पूर्वं राज्यस्य मुख्य-सचिवः अविनाश-कुमारः न्यायमूर्तेः अमिताभ-कुमार-गुप्तस्य लोकायुक्त-रूपेण नियुक्ति-संबद्धस्य वाचनं कृतवान्। ततः अनन्तरं राज्यपालस्य अपर-मुख्य-सचिवः डॉ.नितिन-कुलकर्णी नवनियुक्तं लोकायुक्तं शपथ-ग्रहणाय आमन्त्रितवान्।अस्मिन् अवसरे मुख्यमन्त्री हेमन्त-सोरेनः अपि अस्याः महत्त्वपूर्णायाः संवैधानिक-प्रक्रियायाः साक्षी अभवत्। शपथ-ग्रहण-समारोहानन्तरं राज्यपालः मुख्यमन्त्री च लोकायुक्तं अमिताभ-कुमार-गुप्तं प्रति हार्दिकाः बधायः शुभाशिषः च अयच्छताम्।
अस्मिन् अवसरॆ मन्त्री राधा-कृष्ण-किशोरः तथा मन्त्री दीपिका-पाण्डेय-सिंहः, राज्यसभा-सांसदः डॉ. महुआ-माजी, महापौरः रौशनी-खल्खो, पुलिस-महानिदेशकः तदाशा-मिश्रा, अपर-मुख्य-सचिवाः, मन्त्रिमण्डल-गृह-विभागयोः अधिकारी वन्दना-दादेल इत्यादयः अनेके वरिष्ठ-प्रशासनिक-आरक्षक-अधिकारिणः अन्ये गणमान्य-जनाः च उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता