Enter your Email Address to subscribe to our newsletters

विजयपुरम्, 21 अप्रैलमासः (हि.स.)। विजयपुर-नगरस्य निवासी तथा सूचना-विभागस्य सेवानिवृत्त-वरिष्ठ-अधिकारी मल्लिकार्जुन केलगड़े नामकः पुरुषः पञ्चसप्ततितमे (75) वयसि पाली भाषा-परीक्षायां उल्लेखनीयां सफलतां प्राप्तवान्, उदाहरणं च स्थापितवान्। तस्य अस्य उपलब्ध्या एतत् सिद्धं यत् अधिगमस्य कापि वयोमर्यादा नास्ति।
पाली-भाषायाः प्रति गाढ-रुचिं धारयन् मल्लिकार्जुन-केलगड़े महोदयः सिद्धार्थ-विहार-ट्रस्ट-अधीन-प्रचलिते अन्तरराष्ट्रीय-पाली-संस्कृत-तुलनात्मक-दर्शन-संस्थाने प्रवेशं कृतवान्। तेन एकवर्षीयं डिप्लोमा-पाठ्यक्रमं परिश्रमेण सम्यक् सम्पन्नं कृत्वा परीक्षायां सहभागिता कृता।
परीक्षायां सः पञ्चशताङ्केषु (500) चतुर्शतानि त्रयः (403) अङ्कान् प्राप्त्वा उत्कृष्ट-स्थानं लब्धवान्। अस्य उपलब्धेः कृते कर्नाटक संस्कृति विश्वविद्यालय-द्वारा प्रमाणपत्रं प्रदाय सः सम्मानितः।
पाली भाषा प्राचीना शास्त्रीय-भाषा इति मान्यते, या च भगवान बुद्ध-उपदेशानां तथा त्रिपिटक-ग्रन्थानां अवगमनाय अत्यन्तं महत्त्वपूर्णा अस्ति। अस्याम् कठिनायां भाषायां सफलता तस्य परिश्रमस्य समर्पणस्य च प्रमाणम् अस्ति।
मल्लिकार्जुन-केलगड़े महोदयस्य अस्य प्रेरणादायक-उपलब्धेः विषये तस्य मित्राणि, कुटुम्बजनाः शुभेच्छवः च हर्षं व्यक्त्वा तं अभिनन्दितवन्तः। एषा तस्य सफलता युवानां वरिष्ठ-नागरिकाणां च कृते अपि प्रेरणारूपेण प्रतिष्ठिता।---------------
हिन्दुस्थान समाचार