Enter your Email Address to subscribe to our newsletters

- आईजीओटीपटले पाठ्यक्रमपूर्णताप्रकरणे देशे मध्यप्रदेशस्तृतीये स्थाने , साधना सप्ताहे उच्च शिक्षा विभागस्य उत्कृष्टं प्रदर्शनम्
भोपालम्, 21 अप्रैलमासः (हि.स.)।
मध्यप्रदेशस्य मुख्यमन्त्री डॉ मोहन यादव अद्य मङ्गलवासरे “सिविल सर्विस डे” इत्यस्य अवसरस्य निमित्तेन भोपालस्थिते आरसीवीपी नरोन्हा प्रशासनिक अकादम्यां आयोजिते भव्यसमारोहे उच्चशिक्षाविभागं द्वाभ्यां विशेषसिद्धिभ्यां कृते सम्मानयिष्यति। विभागस्य पक्षतः अपरमुख्यसचिवः अनुपमराजन पुरस्कारं स्वीकरिष्यति।
जनसम्पर्काधिकारी राजेशदाहिमा इत्यनेन सूचितं यत् “साधना सप्ताह” इत्यस्य अवधौ मध्यप्रदेशस्य उच्चशिक्षाविभागेन अपरमुख्यसचिवस्य अनुपमराजनस्य नेतृत्वे उत्कृष्टं कार्यं कृतम्। आइजीओटीपटले अधिकतमपाठ्यक्रमसमापनस्य विषयेषु मध्यप्रदेशः राष्ट्रियस्तरे तृतीयस्थानं प्राप्तवान्, तथा च साधना सप्ताहस्य अन्तर्गतं दशसहस्राधिकलोकसेवकश्रेण्यां राज्यस्तरे विभागेन द्वितीयस्थानं प्राप्तम्।
एतस्याः उपलब्धेः निमित्तं अद्य सिविल सर्विस डे इत्यस्मिन् दिने मुख्यमन्त्रिणा डॉ यादवेन विभागः सम्मानितः भविष्यति।
गौरवपूर्णं यत् भारतसरकारेण अधिकारिणां कर्मचारिणां च ज्ञानकौशलक्षमताविकासार्थं “मिशन कर्मयोगी” अभियानं प्रवर्तितम् अस्ति। अस्य अन्तर्गतं देशस्य सर्वेषु राज्येषु केन्द्रशासितप्रदेशेषु च अधिकारिणः कर्मचारिणः च प्रशिक्षणं प्राप्नुवन्ति।
अस्मिन्नेव क्रमणि अप्रैलमासस्य द्वितीयदिनात् दशमदिनपर्यन्तं “राष्ट्रीय सीखे सप्ताह” इत्यस्य आयोजनम् अभवत्। अस्मिन् अवधौ IGOT पटले अधिकतमपाठ्यक्रमसमापनविषये मध्यप्रदेशेन उत्कृष्टं प्रदर्शनं कृत्वा राष्ट्रियस्तरे तृतीयस्थानं प्राप्तम्।
साधना सप्ताहस्य अन्तर्गतं राज्यस्तरे उच्चशिक्षाविभागेन दशसहस्राधिकलोकसेवकश्रेण्यां उत्कृष्टप्रदर्शनपूर्वकं प्रदेशे द्वितीयस्थानं प्राप्तम्।
---------------
हिन्दुस्थान समाचार