Enter your Email Address to subscribe to our newsletters

भोपालम्, 21 अप्रैलमासः (हि.स.)।
मध्यप्रदेशस्य मुख्यमन्त्री डॉ मोहन यादव अद्य मङ्गलवासरे तमिलनाडुराज्यस्य एकदिवसीये निर्वाचनप्रवासे भविष्यति। सः तमिलनाडुविधानसभानिर्वाचन २०२६ कृते भारतीयजनतापार्टी इत्यस्याः प्रत्याशिनां समर्थनार्थं प्रचारं करिष्यति।
निर्धारितकार्यक्रमानुसारं डॉ मोहन यादव अपराह्णे एकवादने भोपालनगरात् कोयम्बटूरनगरं प्रति प्रस्थितः भविष्यति। ततः सः रासिपुरम विधानसभाक्षेत्रं गत्वा पक्षस्य बैठकां करिष्यति तथा स्थानिकप्रत्याशिनः समर्थनार्थं कार्यकर्तॄन् संबोधयिष्यति।
ततः अनन्तरं सः सायं चतुर्वादने त्रिंशन्मिनिटे अविनाशी विधानसभाक्षेत्रे भारतीयजनतापार्टीप्रत्याशी डॉ एल मुरुगन इत्यस्य समर्थनार्थं निर्वाचनप्रचारं करिष्यति। अत्र सः जनसभां संबोध्य पक्षकार्यकर्तॄन् तथा स्थानिकजनान् मतदाने प्रेरयिष्यति।
ततः अनन्तरं मुख्यमन्त्री डॉ यादव सायं षड्वादने पञ्चदशमिनिटे कोयम्बटूरनगरात् भोपालं प्रति पुनः प्रस्थितः भविष्यति।
---------------
हिन्दुस्थान समाचार