Enter your Email Address to subscribe to our newsletters


- शक्ति दीदी” नवाचारेण अधुनापर्यन्तं 112 महिलाः अभवन् आत्मनिर्भराः, ग्वालियरजिलाधिकारी अद्य भोपाले भविष्यति सम्मानितः
ग्वालियरम्, 21 अप्रैलमासः (हि.स.)।
मध्यप्रदेशस्य ग्वालियरजनपदे महिलासशक्तिकरणस्य नूतनां कथां लिखन्तः “शक्तिदीदी” इत्यस्य नवाचारस्य अधुना राज्यस्तरे महती ख्यातिः प्राप्तुं गच्छति। राज्यशासनेन अस्य अद्वितीयप्रयत्नस्य “मुख्यमन्त्रि-उत्कृष्टतापुरस्कार” कृते चयनः कृतः अस्ति।
अद्य मङ्गलवासरे भोपालस्थिते आरसीवीपी नरोन्हा प्रशासनिक अकादम्यां आयोजिते भव्यसमारोहे ग्वालियरस्य जिलाधिकारी रुचिका चौहान एषः प्रतिष्ठितः पुरस्कारः प्रदास्यते। अस्य पुरस्कारस्य अन्तर्गतं कलेक्टर रुचिका चौहान, सहायकआपूर्तिअधिकारी सौरभ जैन तथा सहायकसंचालकः (महिला एवं बाल विकास) राहुल पाठक एतेभ्यः संयुक्तरूपेण एकलक्षरूप्यकाणां नगदराशिः प्रशस्तिपत्रं च प्रदास्यते।
जनसम्पर्काधिकारी हितेन्द्रसिंह भदौरिया इत्यनेन उक्तं यत् ग्वालियरजिलाय एषः पुरस्कारः “सामाजिकसमावेश एवं सशक्तिकरण” इत्यस्मिन् वर्गे प्रदीयते। मुख्यमन्त्रिणः डॉ मोहन यादवस्य अभिप्रायानुसारं समाजस्य अन्तिमपङ्क्तौ स्थितानां महिलानां मुख्यधारया संयोजनार्थं जिलाधिकारी रुचिका चौहान २ जनवरी २०२५ तमे दिने अस्य नवाचारस्य आरम्भं कृतवती।
पेट्रोलपम्पेषु कार्यं कुर्वन्त्यः ‘शक्तिदीदयः’
अस्य नवाचारस्य अन्तर्गतं ताः महिलाः चयनिताः याः आर्थिकदृष्ट्या अतीव दुर्बलाः आसन्, स्वजनैः उपेक्षिताः वा विधवाः आसन्। जिलाप्रशासनेन तासां महिलानां पेट्रोलपम्पेषु ‘फ्यूल डिलीवरी वर्कर’ इत्यरूपेण सम्मानजनकं रोजगारं प्रदत्तम्। गतवर्षे २ जनवरी २०२५ तमे दिने केवलं पञ्चमहिलाभ्यः आरब्धः अयं प्रयासः अद्य अप्रैलमासपर्यन्तं ११२ शक्तिदीद्यः पर्यन्तं विस्तारितः अस्ति। प्रारम्भे संकोचं दर्शयन्तः पेट्रोलपम्पसंचालकाः अधुना तासां परिश्रमं निष्ठां च दृष्ट्वा स्वयमेव प्रशासनात् शक्तिदीदीनां अपेक्षां कुर्वन्ति।
सुरक्षा सुविधाश्च सुनिश्चिताः
जनसम्पर्काधिकारेण उक्तं यत् अस्य नवाचारस्य अन्तर्गतं केवलं रोजगारः एव न प्रदत्तः, अपि तु तासां सुरक्षा तथा सुविधा अपि सम्यक् सुनिश्चिताः। कलेक्टर रुचिका चौहान इत्यया “शक्तिदीदी” कृते एकः व्हाट्सएप समूहः निर्मितः, यस्मिन् जिलाप्रशासनम्, पुलिसविभागः, पेट्रोलपम्पसंचालकाः तथा शक्तिदीद्यः संयोजिताः सन्ति। अस्मिन् माध्यमे ताः स्वसमस्याः निवेदयितुं शक्नुवन्ति।
तथैव प्रशासनिकाधिकारी तथा सम्बन्धितपुलिसस्थानस्य पुलिसबलम् अपि निरन्तरं पेट्रोलपम्पेषु परिभ्रमणं कृत्वा तासां सुरक्षा सुनिश्चितां करोति। ताभ्यः आश्वासनं दत्तं यत् “यूयं निःशङ्कतया कार्यं कुरुत, वयं सर्वे भवन्तीनां सुरक्षायै चतुर्विंशतिघण्टाः सजगाः स्मः।” पेट्रोलपम्पेषु महिला-फ्यूल-डिलीवरी-कर्मिणां कार्यकालः प्रातः ९ वादनात् सायं ५ वादनपर्यन्तं निर्धारितः अस्ति।
शक्तिदीदी इत्यासाम् अभिप्रायः
“शक्तिदीदी” इत्यरूपेण कार्यं कुर्वन्त्यः महिलाः वदन्ति यत् मुख्यमन्त्री डॉ मोहन यादवेन जिल्लाय महिला-कलेक्टरं नियुक्त्य तासां दुःखदर्दान् अवगन्तुं समर्थः आश्रयः प्रदत्तः। ताः वदन्ति यत् अस्य नवाचारस्य कारणेन न केवलं ताः आर्थिकरूपेण स्वावलम्बिन्यः अभवन्, अपि तु समाजे तासां मानसम्मानः अपि वर्धितः।
---------------
हिन्दुस्थान समाचार