Enter your Email Address to subscribe to our newsletters

- देश-विदेशयोः 700 तोऽधिकाः युवानः ग्रहीष्यन्ति ‘शंकरदूत’ इत्यनेन रूपेण दीक्षा
खंडवा, 21 अप्रैलमासः (हि.स.)।
मध्यप्रदेशस्य तीर्थनगर्यां ओंकारेश्वरे आचार्यशङ्करसांस्कृतिकैकतान्यासेन आदि गुरोः शङ्कराचार्यस्य प्रकटोत्सवस्य वैशाखशुक्लपञ्चम्याः उपलक्ष्ये अप्रैलमासस्य सप्तदशदिनात् एकविंशतिदिनपर्यन्तं आयोजितस्य पञ्चदिवसीयस्य “एकात्मपर्वणः” अद्य मङ्गलवासरे भव्यसमापनं भविष्यति।
ओंकारेश्वरस्य मांधातापर्वते स्थिते “एकात्मधाम” इत्यत्र आयोजितस्य अस्य पर्वणः समापनावसरे अभयघाटे पद्मश्रीहेमन्तचौहानस्य “निर्गुणवाणी” इति कार्यक्रमः तथा मणिपुरनृत्यस्य प्रस्तुति भविष्यति। अस्य अतिरिक्तं जूनापीठाधीश्वरः आचार्यमहामण्डलेश्वरः स्वामी अवधेशानन्दगिरिः अन्यैः संतैः सह उपस्थितः सन् नर्मदातटे आयोजिते दीक्षासमारोहे देशविदेशेभ्यः आगताः सप्तशताधिकाः युवानः ‘शङ्करदूत’ रूपेण दीक्षां प्राप्स्यन्ति।
जनसम्पर्काधिकारी बृजेन्द्रशर्मा इत्यनेन सूचितं यत् समापनसमारोहे प्रदेशस्य संस्कृतिपर्यटनमन्त्री धर्मेन्द्रसिंहलोधी तथा अन्ये अतिथयः अद्वैतवेदान्तदर्शनस्य दीर्घकालीनप्रसाराय स्वामी तेजोमयानन्दसरस्वती तथा गौतमभाईपटेल इत्येतयोः सम्मानं करिष्यन्ति।
समापनावसरे आयोजिते “शङ्करावतरणम्” इति कार्यक्रमे संस्कृतिमन्त्री लोधी, जूनापीठाधीश्वरः आचार्यमहामण्डलेश्वरः स्वामी अवधेशानन्दगिरिः, चिन्मयमिशनस्य स्वामी तेजोमयानन्दसरस्वती, दक्षिणामूर्तिमठस्य प्रमुखः स्वामी पुण्यानन्दगिरिः तथा राष्ट्रीयमानवाधिकारआयोगस्य अध्यक्षः न्यायमूर्ति बी राम सुब्रमण्यम इत्येते प्रमुखरूपेण सहभागिनः भविष्यन्ति।
---------------
हिन्दुस्थान समाचार