Enter your Email Address to subscribe to our newsletters


भोपालनगरम्, २१ अप्रैलमासः (हि.स.)। मध्यप्रदेशस्य राज्यमन्त्री गौतम-टेटवालः उक्तवान् यत् ‘सन्त-शिरोमणि-रविदास-ग्लोबल-स्किल-पार्क’ एशिया-स्तरे स्वीयं विशिष्टं परिचयं निर्माति। फिलिपीन्स-देशस्य चतुर्विंशतिसदस्यीय-प्रतिनिधि-मण्डलेन संस्थानस्य कार्यप्रणालीं, प्रशिक्षण-व्यवस्थां च गभीरतया अवगतम्।
मन्त्री उक्तवान् यत् एतत् बहु-कौशल-प्रशिक्षण-केन्द्रम् अन्ताराष्ट्रिय-मानकानुसारं प्रशिक्षणं ददाति, यत्र प्रशिक्षिताः युवानः देशे विदेशे च रोजगारं प्राप्नुवन्ति। प्रतिनिधिमण्डलेन अत्याधुनिक-प्रयोगशालानां, पाठ्यक्रम-व्यवस्थायाः तथा उद्योग-आधारित-दृष्टिकोणस्य निरीक्षणं कृत्वा प्रशंसा कृता।अस्मिन् अवसरे भविष्य-मार्गदर्शन-प्रकोष्ठस्य तथा ‘सिस्को-नेटवर्किङ्ग-अकादमी’-इत्यस्य उद्घाटनं कृतम्। कार्यक्रमस्य अन्ते वृक्षारोपणं कृत्वा प्रतिनिधिमण्डलं स्वानुभवं प्रकटितवान्।
प्रतिनिधिमण्डलेन नगर-परिसरे प्रिसीजन-इञ्जिनियरिङ्ग-संबद्धाः सीएनसी तथा पारम्परिक-प्रयोगशालाः अपि निरीक्षिताः। हब्-एवं-स्पोक्-नमूनायाः अन्तर्गतं विविध-औद्योगिक-प्रशिक्षण-संस्थानैः प्रस्तुतीकरणं कृतम्, यत्र विकेन्द्रित-प्रशिक्षण-प्रणाल्याः उद्योग-आवश्यकतानुसारं सञ्चालनस्य विवरणं दत्तम्।
संवाद-सत्रे प्रशिक्षण-प्रक्रियाः, पाठ्यक्रम-संरचना, उद्योग-सहभागिता तथा प्लेसमेंट-व्यवस्था इत्यादिषु विस्तृतः विचार-विनिमयः अभवत्। मुख्य-कार्यपालन-अधिकारी डॉ.गिरीश-शर्मा अग्रिम-वैकल्पिक-पाठ्यक्रमाणां विषये सूचनां दत्तवान्। प्रतिनिधिमण्डलेनापि स्वीयं क्वालिफिकेशन-फ्रेमवर्क् प्रस्तुतं कृत्वा ज्ञानस्य श्रेष्ठ-प्रथानां च आदान-प्रदानं कृतम्।
हिन्दुस्थान समाचार / अंशु गुप्ता