प्रधानमंत्री मईमासे यूरोप-यात्रां कर्तुं शक्नोति
नवदिल्लीनगरम्, २१ अप्रैलमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अग्रिम-मासे यूरोपस्य चतुर्षु देशेषु—नॉर्वे, स्वीडन्, नीदरलैण्ड् तथा इटली—आधिकारिक-यात्रां कर्तुं सम्भाव्यते, यस्यां सः ओस्लो-नगरे ‘भारत-नॉर्डिक-शिखर-सम्मेलने’ भागं गृह्णीयात्। भारत-य
प्रधानमंत्री मईमासे यूरोप-यात्रां कर्तुं शक्नोति


नवदिल्लीनगरम्, २१ अप्रैलमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अग्रिम-मासे यूरोपस्य चतुर्षु देशेषु—नॉर्वे, स्वीडन्, नीदरलैण्ड् तथा इटली—आधिकारिक-यात्रां कर्तुं सम्भाव्यते, यस्यां सः ओस्लो-नगरे ‘भारत-नॉर्डिक-शिखर-सम्मेलने’ भागं गृह्णीयात्।

भारत-यूरोपीय-संघयोः मध्ये ऐतिहासिक-मुक्त-व्यापार-सन्ध्यां (एफटीए) हस्ताक्षरिते सति, एषा प्रधानमन्त्रिणः प्रथमा यूरोप-यात्रा भविष्यति।

आधिकारिक-स्रोतसां अनुसारं प्रधानमन्त्रिणः एषा चतुर्देशीय-यात्रा १५ तः २० मई-तिथिपर्यन्तं भवितुं सम्भाव्यते। अस्याः यात्रायाः मुख्यं लक्ष्यं नॉर्वे-देशे आयोजिते ‘भारत-नॉर्डिक-शिखर-सम्मेलने’ प्रधानमन्त्रिणः सहभागिता भविष्यति।

यात्रायाः कार्यसूच्याः विषये स्रोतांसि उक्तवन्ति यत् प्रधानमन्त्री नॉर्वे-देशे भारत-नॉर्डिक-शिखर-सम्मेलने भागं गृहीत्वा नॉर्डिक-देशानां नेतृभिः सह द्विपक्षीय-वार्ताः करिष्यति, यासु सः मुख्यतया द्विपक्षीय-सम्बन्धान्, हरित-ऊर्जा, समुद्रीय-अर्थव्यवस्था तथा नवोन्मेषं विषये चर्चां करिष्यति।

स्रोतसां अनुसारं प्रधानमन्त्री स्वीडन्, नीदरलैण्ड् तथा इटली-देशान् अपि गमिष्यति। एतैः देशैः सह रक्षा, उच्च-प्रौद्योगिकी, व्यापारं तथा निवेश-क्षेत्रेषु सहयोगस्य वर्धनाय बलं दास्यति।

उल्लेखनीयं यत् भारत-यूरोपीय-संघयोः मुक्त-व्यापार-सन्धिः (एफटीए) प्रवर्तिते सति, एषा यात्रा यूरोपीय-विपणे भारतीय-निर्यातस्य वर्धनाय तथा रणनैतिक-सहभागितायाः उन्नयनाय अत्यन्तं महत्त्वपूर्णा मन्यते।

स्रोतांसि वदन्ति यत् अस्यां यात्रायां बहवः महत्त्वपूर्णाः सन्धयः अपि हस्ताक्षरिताः भविष्यन्ति, ये ‘आत्मनिर्भर-भारत’-अभियानं तथा वैश्विक-आपूर्ति-श्रृंखलायां भारतस्य भूमिकां अधिकं सुदृढां करिष्यन्ति। विदेश-मन्त्रालयः शीघ्रमेव अस्याः यात्रायाः विस्तृत-कार्यक्रमस्य आधिकारिक-घोषणां कर्तुं शक्नोति।

हिन्दुस्थान समाचार / अंशु गुप्ता