Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, २१ अप्रैलमासः (हि.स.)। दृढ-संकल्पेन प्रशासनस्य सहयोगेन च शताब्दिनां पुरातनानि बन्धनानि अपि भङ्गं यान्ति— एतस्य दृष्टान्तः नीमच-जनपदे दृश्यते। अत्र ‘पङ्ख-अभियानम्’ नाम अभिनव-प्रयत्नः बाँछड़ा-समुदायस्य कन्यकानां कृते आशायाः दीपः अभवत्, याः पूर्वं सामाजिक-बहिष्कारस्य परम्परागत-बाधानां च कारणेन अन्धकारे निमग्नाः आसन्।
अयं समुदायः आर्थिक-अभावेन कुप्रथाभिश्च दीर्घकालम् उपेक्षितः आसीत्। बालिकानां कृते ‘देह-व्यापार’ इव बाधा तासां भविष्यस्य मार्गे प्रमुखा आसीत्। किन्तु ‘बेटी-बचाओ-बेटी-पढ़ाओ’ इत्यस्य भावनां व्यवहारतः स्थापयित्वा प्रशासनं ‘पङ्ख-अभियानेन’ एतां स्थितिं गरिमायां परिवर्तितुं प्रयत्नं कृतवान्।
अस्याभियानस्य प्रमुखा उपलब्धिः ‘सशक्त-वाहिनी’ योजना अस्ति, यस्यां १४ कन्यकाः आरक्षक-अर्धसैनिक-बलयोः प्रवेशाय प्रशिक्षणं प्राप्नुवन्ति। तासां शैक्षिक-मार्गदर्शनं शारीरिक-प्रशिक्षणं च निःशुल्कं प्रदीयते, येन ताः देश-सेवायै सज्जाः भवन्ति।
आर्थिक-स्वावलम्बनाय अपि विशेषः प्रयत्नः कृतः। २०२५-२६-वित्तीय-वर्षे ३० महिलाः बालिकाश्च स्वरोजगार-प्रशिक्षणेन मुख्यधारायां संयोजिताः। पशुपालनम्, सिवनम्, सौन्दर्य-सेवा, मसाला-प्रक्रिया इत्यादिषु कौशलं प्राप्य ताः ‘बाध्यतार्जनं’ त्यक्त्वा ‘परिश्रमार्जनं’ प्रति अग्रसराः अभवन्।
प्रशासनस्य प्रयासैः २६ आङ्गनबाडी-केन्द्रेषु सहायता-केन्द्राणि स्थापितानि, ४८ स्वास्थ्य-शिविराणि आयोजितानि, तथा २५ जागरूकता-सत्राणि सम्पन्नानि। एतेषां माध्यमेन समुदायस्य चिन्तन-धारायां सकारात्मकं परिवर्तनं जातम्।
एतत् अभियानं दर्शयति यत् सम्यक्-दिशया संवेदनया च कृताः प्रयत्नाः कस्यापि समुदायस्य उत्थानं कर्तुं समर्थाः भवन्ति। अद्य एताः कन्यकाः भय-बाधाभ्यः मुक्ताः भूत्वा शिक्षा-रोजगारयोः नूतनं गगनं प्रति स्वपक्षाभ्यां उड्डयनं कुर्वन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता