‘राजा-शिवाजी’ इति चित्रेण रितेशदेशमुखस्य पुत्रेण अभिनय-क्षेत्रे प्रथमं पदार्पणं कृतम्
अभिनेता-निर्देशकः रितेशदेशमुख-निर्मितस्य बहुप्रतीक्षितस्य ऐतिहासिक-चित्रस्य ‘राजा-शिवाजी’ इत्यस्य ट्रेलर २० अप्रैल-दिने प्रकाशितः सन् शीघ्रमेव चर्चायां आगतः। अस्मिन् चित्रे सः छत्रपति शिवाजी महाराज-पात्रे दृश्यते, यत्र मराठा-साम्राज्यस्य शौर्यं, सं
राहिल देशमुख- फोटो सोर्स एक्स


अभिनेता-निर्देशकः रितेशदेशमुख-निर्मितस्य बहुप्रतीक्षितस्य ऐतिहासिक-चित्रस्य ‘राजा-शिवाजी’ इत्यस्य ट्रेलर २० अप्रैल-दिने प्रकाशितः सन् शीघ्रमेव चर्चायां आगतः। अस्मिन् चित्रे सः छत्रपति शिवाजी महाराज-पात्रे दृश्यते, यत्र मराठा-साम्राज्यस्य शौर्यं, संघर्षः स्वराज्य-भावना च भव्यरूपेण प्रदर्शिता अस्ति।

ट्रेलर-इत्यस्य विशेषता एषा यत् अनेन चित्र-माध्यमेन जेनेलियाडिसूजा-रितेशदेशमुखयोः पुत्रः राहिल-देशमुखः अभिनय-क्षेत्रे प्रथमं पदार्पणं कृतवान्। सः बाल-शिवाजी-रूपेण लघु-दृश्येऽपि प्रभावपूर्णं अभिनयम् अकरोत्, येन दर्शकाणां मनांसि आकृष्टानि। सामाजिक-माध्यमेषु अपि तस्य प्रशंसा बहुलतया क्रियते।

अस्मिन् चित्रे संजयदत्तः, अभिषेकबच्चन, विद्याबालन, भाग्यश्री तथा फरदीनखान अपि प्रमुख-भूमिकासु दृश्यन्ते। ट्रेलर-प्रकाशन-अवसरे रितेशदेशमुखः एतदपि सूचितवान् यत् सलमानखान विशेष-अतिथि-पात्रे (कैमियो) दृश्यते।

एतत् चित्रं प्रायः १०० कोटि-रूप्यक-व्यये निर्मितं सन् १ मई-दिने प्रेक्षागृहेषु प्रदर्शितं भविष्यति, यत् दर्शकानां कृते भव्यं ऐतिहासिक-अनुभवं दातुम् उद्दिश्य निर्मितम् अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता