सचिनतेंदुलकर: २२ अप्रैलमासे छत्तीसगढ़-राज्यस्य दंतेवाड़ा-नगरम् आगमिष्यति, क्रीडाङ्गणस्य उद्घाटनं करिष्यति
दंतेवाडा-नगरम्, २१ अप्रैलमासः (हि.स.)। छत्तीसगढ़-राज्यस्य बस्तर-सम्भागे नक्सल-प्रभावितः आसीत् दंतेवाड़ा-जनपदस्य कृते २२ अप्रैल-दिनं विशेषं भविष्यति। अस्मिन् दिने सचिन तेन्दुलकरः दंतेवाड़ा-प्रवासं करिष्यति। सः छिंदनार, जावंगा तथा पनेड़ा-ग्रामेषु निर
सचिन तेंदुलकर के दंतेवाड़ा प्रवास की तैयारियां जोरों पर


दंतेवाडा-नगरम्, २१ अप्रैलमासः (हि.स.)। छत्तीसगढ़-राज्यस्य बस्तर-सम्भागे नक्सल-प्रभावितः आसीत् दंतेवाड़ा-जनपदस्य कृते २२ अप्रैल-दिनं विशेषं भविष्यति। अस्मिन् दिने सचिन तेन्दुलकरः दंतेवाड़ा-प्रवासं करिष्यति। सः छिंदनार, जावंगा तथा पनेड़ा-ग्रामेषु निर्मितानां नूतनानां बहु-क्रीडाङ्गणानां उद्घाटनं करिष्यति।

जनपदाधिकारी मयंक-चतुर्वेदी उक्तवान् यत् अयं प्रवास: केवलं उद्घाटन-कार्यक्रमः नास्ति, अपि तु ‘मैदान-कप’ उपक्रमस्य माध्यमेन दूरवर्ती-ग्रामेषु बालकान् क्रीडाभिः संयोजयितुं एकः महत्त्वपूर्णः प्रयासः अस्ति। अधिकारिणां अनुसारं सचिन-तेन्दुलकर-फाउण्डेशन तथा प्रशासनं मिलित्वा ५० क्रीडाङ्गणानि निर्माति, तेषु १५ क्रीडाङ्गणानां कार्यं सम्पन्नम् अस्ति।

जिला-प्रशासनस्य अनुसारं सचिन तेन्दुलकरः बुधवासरे प्रातः ०९:३० तः १०:३० वादनयोः मध्ये चार्टर्ड-विमानेन रायपुर-स्थितं स्वामी-विवेकानन्द-विमानतलम् आगमिष्यति। ततः सः मुख्यमन्त्री विष्णुदेव-सायेन सह हेलिकॉप्टरयानस्य माध्यमेन प्रत्यक्षं दंतेवाड़ां गमिष्यति। अस्य कृते नक्सल-प्रभावित-क्षेत्रे पुलिस-प्रशासनेन कठोराः सुरक्षा-व्यवस्थाः कृताः सन्ति।

एषः प्रवासः तस्मात् अपि महत्त्वपूर्णः मन्यते यतः यत्र पूर्वं भय-हिंसयोः वातावरणम् आसीत्, तत्र अधुना क्रीडया सह आशायाः नूतना ज्योतिः दृश्यते। सचिन तेन्दुलकरः स्व-परिवारेण सह तथा मुख्यमन्त्रिणा विष्णुदेव-सायेन सह छिंदनार-ग्रामं गमिष्यति तथा विशाल-क्रीडा-परियोजनायाः आरम्भं करिष्यति। इन्द्रावती-नद्याः तटे स्थितः छिंदनार-ग्रामः अधुना पूर्णतया परिवर्तितः दृश्यते, ग्रामे उत्साहः वर्तते, बालकानां मुखेषु हर्षः दृश्यते।

छिंदनार-ग्रामे एकं आधुनिकं बहु-क्रीडाङ्गणं निर्मितम् अस्ति, यत्र एकस्मिन् एव परिसरे षोडश-प्रकाराः क्रीडा-सुविधाः सन्ति। अस्मिन् खो-खो, कबड्डी, वॉलीबॉल, बैडमिंटन, क्रिकेट इत्यादयः क्रीडाः तथा व्यायाम-क्षेत्रम् अपि अन्तर्भूतम् अस्ति। एतत् क्रीडाङ्गणं आदिवासी-बालकानां यूनां च भविष्यं प्रति नूतनां दिशां दास्यति। सचिन तेन्दुलकरः प्रथमं अस्य क्रीडाङ्गणस्य उद्घाटनं करिष्यति, ततः बालकैः सह मिलित्वा समयं यापयिष्यति तथा सम्पूर्ण-परिसरस्य निरीक्षणं करिष्यति।

ततः अनन्तरं सः गीदम-निकटे स्थितस्य पनेड़ा-क्रीडाङ्गणस्य अपि लोकार्पणं करिष्यति। पश्चात् जावंगा-एजुकेशन-नगरं गत्वा छात्रैः सह प्रत्यक्षं संवादं करिष्यति। अस्य प्रवासस्य मुख्य-उद्देश्यं स्थानीय-प्रतिभानां प्रोत्साहनम् अस्ति। अस्मिन् सन्दर्भे दिव्याङ्ग-खिलाडी मड्डाराम-कवासी इत्यस्य सचिनतेन्दुलकरेण सह मिलनस्य योजना अपि अस्ति।

उल्लेखनीयम् अस्ति यत् सचिन-तेन्दुलकर-फाउण्डेशन दंतेवाड़ा-जनपदे क्रीडानां प्रोत्साहनार्थं सक्रियतया कार्यं करोति। जनपदे १५ क्रीडाङ्गणानि निर्मितानि सन्ति, २५ विद्यालयेषु आश्रमेषु च क्रीडा-गतिविधयः नियमितरूपेण संचालिताः सन्ति। ग्रामीण-आदिवासी-क्षेत्रेषु बालकानां कृते एतत् प्रथमं व्यावसायिक-क्रीडा-पर्यावरणं प्रदत्तम् अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता