तमिलनाडौ विधानसभानिर्वाचनप्रचारस्य अंतिमदिनं राजनीतिकदलानाम् अवनतं दलम्
चेन्नई, 21 अप्रैलमासः (हि.स.)।तमिलनाडुराज्ये २३ एप्रिलदिनाङ्के भविष्यन्ति विधानसभानिर्वाचनानि, तेषां प्रचारस्य अन्तिमदिने अद्य सर्वे राजनैतिकदलाः स्वस्य पूर्णशक्तिं निवेशितवन्तः। सर्वासु २३४ आसन्दीषु ४०२३ प्रत्याशिनः स्पर्धायां सन्ति। अस्मिन् निर्
तमिलनाडौ विधानसभानिर्वाचनप्रचारस्य अंतिमदिनं राजनीतिकदलानाम् अवनतं दलम्


चेन्नई, 21 अप्रैलमासः (हि.स.)।तमिलनाडुराज्ये २३ एप्रिलदिनाङ्के भविष्यन्ति विधानसभानिर्वाचनानि, तेषां प्रचारस्य अन्तिमदिने अद्य सर्वे राजनैतिकदलाः स्वस्य पूर्णशक्तिं निवेशितवन्तः। सर्वासु २३४ आसन्दीषु ४०२३ प्रत्याशिनः स्पर्धायां सन्ति।

अस्मिन् निर्वाचने विजयप्राप्तये सर्वे दलाः तीव्रप्रचारे संलग्नाः सन्ति। अद्य प्रचारस्य अन्तिमदिने प्रत्याशिनः अधिकाधिकजनान् मिलित्वा समर्थनं सङ्ग्रहयितुं प्रयतन्ते। तेन सह प्रमुखराजनैतिकदलानां नेतारः अपि अद्य विविधेषु स्थानेषु प्रचारकार्यक्रमान्, जनसभाः, मार्गप्रदर्शनयात्राः च आयोजयितुं योजनां कृतवन्तः।

अद्य सायं ६ वादनानन्तरं निर्वाचनसम्बद्धा काचिदपि सभा वा यात्रा वा आयोजयितुं न अनुमन्यते। अतः मुख्यमंत्री स्टालिन् सम्पूर्णराज्यस्य भ्रमणं समाप्त्वा अद्य स्वनिर्वाचनक्षेत्रे कोलाथुरे स्वस्य कृते मतानि याचते।

टीवीकेदलस्य नेता विजयः अद्य मध्याह्ने पल्लवक्कम् अम्बेडकरप्रतिमातः तिरुवनमियूर नागाथम्मन् देवालयस्य सङ्गमस्थानम्, सैदापेट पनगल मालिगै समीपे अन्नासलायां कलैनार् आर्च् जूनिस् रोड् सङ्गमस्थानपर्यन्तं वाहनयात्रां कृतवान्। ततः अनन्तरं अपराह्णे ३ वादनात् सैदापेट् नन्दनम् वाईएमसीए क्रीडाङ्गणे टीवीके पदाधिकाऱिणां सभायाः आयोजनार्थं अनुमतिः अपि प्राप्ता।

प्रचारस्य समाप्तेः अनन्तरं सायं ६ वादनात् परं बहिर्जनानां तस्मात् क्षेत्रात् निर्गमनं अनिवार्यं कृतम्। निर्वाचनायोगेन चेतावनी दत्ता यत् नियमोल्लङ्घने द्विवर्षपर्यन्तं दण्डः भवितुम् अर्हति।

---------------

हिन्दुस्थान समाचार