शक्त्या सह भक्तेः अपि आवश्यकता— संघ-प्रमुखः डॉ.भागवतः
अगरतलानगरम् (त्रिपुरा), २१ अप्रैलमासः (हि.स.)। त्रिपुरा-राज्यस्य पश्चिम-त्रिपुरा-जनपदे मोहनपुर-उपमण्डलान्तर्गत-फकीरमुरा-ग्रामे आदि-शङ्कराचार्यस्य शुभ-दिने मङ्गलवासरे “माता-चिन्मयी-सौन्दर्य-मन्दिरम्” इत्यस्य उद्घाटनं मोहनभागवतः (राष्ट्रीय-स्वयंसेवक-
त्रिपुराः मां चिन्मयी सौंदर्य मंदिर के उद्घाटन अवसर पर आयोजित समारोह को संबोधित करते डॉ. मोहन भागवत


त्रिपुराः मां चिन्मयी सौंदर्य मंदिर के उद्घाटन कार्यक्रम में शामिल आरएसएस के सरसंघचालक डॉ. मोहन भागवत।


अगरतलानगरम् (त्रिपुरा), २१ अप्रैलमासः (हि.स.)। त्रिपुरा-राज्यस्य पश्चिम-त्रिपुरा-जनपदे मोहनपुर-उपमण्डलान्तर्गत-फकीरमुरा-ग्रामे आदि-शङ्कराचार्यस्य शुभ-दिने मङ्गलवासरे “माता-चिन्मयी-सौन्दर्य-मन्दिरम्” इत्यस्य उद्घाटनं मोहनभागवतः (राष्ट्रीय-स्वयंसेवक-संघस्य सरसंघचालकः) कृतवान्। एतत् मन्दिरं माता-त्रिपुरेश्वर्यै समर्पितम् अस्ति। अस्मिन् अवसरे तेन चिन्मय-हरिहर-विद्यालये निःशुल्क-शिक्षा-प्रदानस्य प्रयत्नः प्रशंसितः।

मुख्यातिथिरूपेण भाषमाणः सः अवदत्— “ज्ञानस्य अर्थः केवलं भाषणं न, अपितु सम्यक्-बोधः।” तेन उक्तं यत् विश्वं दीर्घकालात् विविध-दर्शनानां अनुभवम् अकरोत्, परन्तु अधुना पृथिव्यै भारतस्य जीवन-दृष्टेः आवश्यकता अनुभूयते।

सः अवदत् यत् सनातन-धर्मः विश्वाय सम्यक्-दिशां प्रदत्तवान्, मन्दिराणि च भारतीय-सामाजिक-जीवनस्य केन्द्रबिन्दवः सन्ति। अद्य शक्त्या सह भक्तेः अपि समानतया आवश्यकता वर्तते। समाजः तान् एव स्मरति ये सर्वैः सह मिलित्वा सेवां कुर्वन्ति— एषा एव भारतीय-संस्कृतिः।

तेन उक्तं यत् विविधतायां अपि भारतस्य एकता एव तस्य बलम् अस्ति, किन्तु बाह्य-शक्तयः अस्य विभाजनाय प्रयत्नं कुर्वन्ति, अतः सर्वे सतर्काः भवन्तु। सत्यस्य समर्थनम् एव पर्याप्तं न, तस्य संस्थापनाय शक्तेः आवश्यकता भवति। भारतस्य शक्ति तस्य संस्कृतौ निहिता अस्ति, यः देशः सदा शान्तिं भ्रातृत्वं च प्रोत्साहयति।

समारोहे इन्द्रसेनरेड्डी, जिष्णुदेववर्मा तथा माणिकशाहः अपि उपस्थिताः आसन्।उल्लेखनीयं यत् एतत् मन्दिरम् अद्वितीय-स्थापत्य-आध्यात्मिक-स्मारकरूपेण निर्मितम् अस्ति। अत्र तमिलनाडुतः आनिताः २७ कृष्ण-शिलास्तम्भाः सन्ति, ये २७ नक्षत्राणां प्रतीकाः सन्ति। मन्दिरं पारम्परिक-छदन-विनिर्मुक्तं निर्मितम्, मध्ये १५-फुट-उच्च माता-त्रिपुरसुन्दरी-मूर्ति प्रतिष्ठिता अस्ति। परिसरस्य भित्तिषु “सौन्दर्य-लहरी”-आदिनां भक्तिग्रन्थानां नक्काशयः अपि दृश्यन्ते, येन तस्य आध्यात्मिक-महत्त्वं वर्धितम्।

हिन्दुस्थान समाचार / अंशु गुप्ता