गुरुणा विना जीवनम् अपूर्णं, भागवत कथायां बलि-वामन प्रसंगेन गूंजितः संदेशः
मीरजापुरम्, 21 अप्रैलमासः (हि.स.)।हलिया-क्षेत्रस्य हथेड़ा-ग्रामे प्रवर्तमानायां संगीतमय्यां श्रीमद्भागवत-कथायाः चतुर्थे दिने मङ्गलवासरे कथा-व्यासः पंडित विष्णुधर द्विवेदी गुरोः-शिष्य-परम्परायाः महत्त्वं विवृतवान्। तेन दैत्यराज-बलि तथा भगवान् वामन-क
हथेडा गांव में श्रीमद्भागवत कथा सुनाते वृष्णु द्विवेदी।


मीरजापुरम्, 21 अप्रैलमासः (हि.स.)।हलिया-क्षेत्रस्य हथेड़ा-ग्रामे प्रवर्तमानायां संगीतमय्यां श्रीमद्भागवत-कथायाः चतुर्थे दिने मङ्गलवासरे कथा-व्यासः पंडित विष्णुधर द्विवेदी गुरोः-शिष्य-परम्परायाः महत्त्वं विवृतवान्। तेन दैत्यराज-बलि तथा भगवान् वामन-कथायाः माध्यमेन उक्तं यत् यावत् शिष्यः गुरोः कृपां प्राप्नोति तावत् तस्य वैभवम् अवस्थितं भवति, किन्तु गुरुकृपाया अभावे सर्वं नश्यति। सः अवदत्— “यस्मिन् जीवने गुरुः नास्ति, तस्य जीवनम् आरब्धम् अपि न भवति।”

व्यासः श्रीराम-कथां वर्णयन् उक्तवान् यत् भगवान् रामः रावण-वधं शीघ्रं कृतवान्, किन्तु तेन प्रसारिताः कुरीतयः निवारयितुं बहूनि वर्षाणि गतानि। तेन उक्तं यत् केवलं विद्वत्ता पर्याप्ता नास्ति, अपि तु सदाचारः अपि आवश्यकः, अन्यथा मनुष्यः रावणवत् भवितुं शक्नोति।

कृष्ण-प्राकट्य-प्रसङ्गं कथयन् सः अवदत् यत् भगवान् श्रीकृष्ण-स्य जन्म कारागारे अभवत्, किन्तु गोकुल-प्राप्तौ सर्वत्र आनन्दः व्याप्नोत्। एतां कथां श्रुत्वा श्रद्धालवः भाव-विभोराः अभवन्।

अस्मिन् अवसरे मुख्य-यजमाना शिव कुमारी सहिताः शताधिकाः भक्ताः उपस्थिताः आसन्।

हिन्दुस्थान समाचार