प्रधानमंत्री मोदी राष्ट्रसेवायाः एवं ‘विकसित भारतस्य च आधारशिलायाः दत्तवान् संदेशम्
नवदिल्ली, 21 अप्रैलमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र मोदी सिविल सेवा दिवसे देशस्य सिविल सेवकान् सम्बोधयन् राष्ट्रसेवां “विकसित भारतस्य” दृढं आधारं उक्तवान्। सः अवदत् यत् अन्तिमपङ्क्तौ स्थितस्य व्यक्तेः पर्यन्तं विकासस्य प्रापणमेव सशक्तसमृद्धसं
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)।


नवदिल्ली, 21 अप्रैलमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्र मोदी सिविल सेवा दिवसे देशस्य सिविल सेवकान् सम्बोधयन् राष्ट्रसेवां “विकसित भारतस्य” दृढं आधारं उक्तवान्। सः अवदत् यत् अन्तिमपङ्क्तौ स्थितस्य व्यक्तेः पर्यन्तं विकासस्य प्रापणमेव सशक्तसमृद्धसंवेदनशीलभारतस्य निर्माणस्य मूलाधारः अस्ति।

प्रधानमन्त्री मोदी मङ्गलवासरे एक्स इत्यत्र स्वसन्देशे एकं सुभाषितं साझीकृत्य सिविल सेवकान् तेषां कर्तव्येषु मूल्यमान्येषु च स्मारितवान्। सः अलिखत् यत् “शीलं परहितासक्तिः अनुत्सेकः क्षमा धृतिः। अलोभश्चेति विद्यायाः परिपाकोञ्चलं फलम्॥”

अस्य सुभाषितस्य अर्थः अस्ति यत् सत्यविद्यायाः परिपक्वं फलम् उत्तमचरित्रं परहितभावना अहङ्कारस्य अभावः क्षमा धैर्यं च लोभवर्जनं च भवति।

प्रधानमन्त्री उक्तवान् यत् एते गुणाः आदर्शस्य सिविल सेवकस्य परिचायकाः सन्ति तथा एतेषां मूल्यानां आधारेणैव देशः अग्रे नेतुं शक्यते। सः सर्वान् सिविल सेवकान् आह्वयत् यत् ते जनसेवां सर्वोपरि स्थापयित्वा प्रत्येकस्मै नागरिकाय विकासस्य लाभं प्रापयितुं स्वसंकल्पं पुनरावर्तयन्तु।

सः अपि अवदत् यत् सिविल सेवा दिवसः सुशासनस्य राष्ट्रनिर्माणस्य च दिशि प्रतिबद्धतां अधिकं सुदृढां कर्तुं अवसरः अस्ति।

प्रधानमन्त्री सिविल सेवकानां योगदानस्य प्रशंसां कृत्वा उक्तवान् यत् भूमिस्थरात् आरभ्य नीतिनिर्माणपर्यन्तं तेषां प्रयासाः असंख्यानां जनानां जीवनं प्रभावितवन्तः सन्ति तथा भारतस्य प्रगत्यां महत्वपूर्णां भूमिकां निर्वहन्ति।

अन्ते सः उक्तवान् यत् देशस्य सिविल सेवकाः कर्तव्यस्य उच्चतममानकान् पालनं कुर्वन्तः उत्कृष्टतया करुणया नवाचारेण च सह सेवां निरन्तरं करिष्यन्ति।

---------------

हिन्दुस्थान समाचार