Enter your Email Address to subscribe to our newsletters

पुस्तकानां महत्त्वं तथा तद्भ्यः प्राप्तस्य ज्ञानस्य सम्बन्धे सदैव उक्तं भवति यत् ज्ञानं कदापि निष्फलं न भवति। पुस्तकानि विविध-संस्कृतिनां, परिचयानां तथा भाषाणां माध्यमेन स्वविशिष्टतां प्रकटयन्ति, तथा एकां सामान्य-परम्परां कथां च केन्द्रीकृत्य जनान् एकत्र संयोजयन्ति। किन्तु एतत् चिन्तनीयम् अस्ति यत् पाठकेषु पुस्तकपठनस्य रुचिः सततं न्यूनतां गच्छति।
पठन-संस्कृतेः प्रोत्साहनाय, लेखकानां सम्मानाय, कॉपीराइट-विधेः विषये जागरूकतायै तथा पुस्तक-पठन-कलायाः विकासाय प्रतिवर्षं २३ अप्रैलमासे यूनेस्को तथा अन्य-संस्थाभिः ‘विश्व-पुस्तक-दिवसः’ आचर्यते। एषः दिवसः यूनेस्को-द्वारा २३ अप्रैल १९९५ तमे वर्षे औपचारिकरूपेण प्रारब्धः।
आधुनिक-युगे बालकानां यूनां च पुस्तकानि प्रति आकर्षणं न्यूनं जातम्। दूरभाष-यन्त्राणां संगणकानां च युगे अधिकतरं जनाः तेषु एव समयं यापयन्ति। किन्तु विद्वांसः वदन्ति यत् अन्तर्जाल-माध्यमेन प्राप्ता सूचना मस्तिष्केन केवलं स्वीकर्तव्या भवति, या कल्पनाशक्तिं दुर्बलां करोति; परन्तु पुस्तकपठनेन ध्यानं, एकाग्रता तथा चिन्तन-क्षमता वर्धते, यत् सृजनात्मकतायै नूतनां दिशां ददाति।
अतः आवश्यकम् अस्ति यत् दूरदर्शन-सामाजिक-माध्यमेषु अत्यधिक-आसक्तेः स्थाने पुस्तकानां अध्ययनं जीवनस्य अनिवार्यम् अङ्गं भवेत्। बालसाहित्यं तथा ज्ञानवर्धक-पुस्तकानि बालकानां मानसिक-विकासाय अत्यन्तं उपयोगीनि भवन्ति तथा तेषु दीर्घकालीनं पठन-प्रेमं जनयन्ति।
अधिकं, पुस्तकानि केवलं ज्ञानस्य साधनानि न सन्ति, अपि तु तानि मनुष्यस्य एकान्ते, दुःखे वा समये सत्य मित्रवत् सहायकानि भवन्ति। तेषां माध्यमेन प्रश्नानां समाधानं प्राप्तुं शक्यते तथा चिन्तन-क्षेत्रं विस्तारितुं शक्यते।
राष्ट्रीय-पुस्तक-न्यासेन प्रतिवर्षं आयोजितः ‘विश्व-पुस्तक-मेलापक:’ अपि पठन-संस्कृतेः विकासे महत्त्वपूर्णां भूमिकां वहति। तथापि एतादृशानां प्रयासानां सत्त्वे अपि विशेषतः हिन्दी-पाठकेषु पुस्तक-पठन-प्रवृत्तिः न्यूनतां गच्छति इति दृश्यते।
अतः विद्यालयेषु तथा स्थानीय-पुस्तकालयेषु उत्तम-पुस्तकानां पर्याप्त-उपलब्धिः अत्यावश्यकी अस्ति। विशेषतः बालकानां कृते प्रेरणादायक-साहित्यं, रोचक-पुस्तकानि च उपलब्धानि भवितव्यानि, येन तेषां सर्वाङ्गीण-विकासः भवेत्।
विद्यालय-पुस्तकालयाः बालकानां पुस्तक-प्रेम-विकासे महत्त्वपूर्णां भूमिकां वहन्ति। परन्तु अनेक-स्थानेषु पुस्तकानामभावः, तथा तेषां स्थापनस्य अभावः अपि दृश्यते, यत् चिन्तनीयम् अस्ति।
अन्ततः, पुस्तकानि सभ्यतायाः वाहकानि, ज्ञानस्य दीपानि तथा संस्कार-निर्माणस्य आधाराणि सन्ति। तानि मानवजीवनं ज्ञानेन, नैतिकतया तथा सृजनशीलतया समृद्धं कुर्वन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता