Enter your Email Address to subscribe to our newsletters

दंतेवाड़ा-नगरम्, २२ अप्रैलमासः (हि.स.)। पूर्व-दिग्गज-क्रिकेट-क्रीडक: सचिन-तेन्दुलकरः बस्तर-संभागस्य दंतेवाड़ा-जनपदस्य छिंदनार-ग्रामे आयोजिते ‘मैदान-कप’ इति कार्यक्रमे सम्मिलितः अभवत्। अस्मिन् अवसरे सः खेल-प्रतिभानां उत्साहवर्धनं कृत्वा विविध-खेल-क्रियासु सहभागितां कृतवान्। सः ग्रामे स्थिते स्वामी आत्मानन्द-हिन्दी-माध्यम-उच्च-माध्यमिक-विद्यालये बहु-खेल-प्रांगणस्य उद्घाटनं कृतवान्। एतत् प्रांगणं सचिन-तेन्दुलकर-मानदेशी-फाउण्डेशन-इत्येताभ्यां निर्मितम्, यस्य संस्थापिका चेतना-सिन्हा अपि उपस्थिताऽभवत्।
कार्यक्रमे सचिनः उक्तवान् यत् एतेषु प्रांगणेषु नियमित-खेल-क्रियाकलापानां प्रोत्साहनाय ‘मैदान-कप’ इत्यादिनी आयोजनानि क्रियन्ते। सः अवदत्— “बस्तरे बहव: हीराः सन्ति, केवलं सम्यक् परिष्करणं कर्तव्यम्।”
कार्यक्रमस्य आरम्भे सचिनः, तस्य पुत्री सारा तथा पुत्रवधू सानिया च विविध-खेल-क्रियासु उत्साहेन भागं गृहीत्वा बालकानां मनोबलं वर्धितवन्तः। रस्साकशी, वॉलीबॉल, धावनं, खो-खो इत्यादयः रोचक-खेलाः आयोजिताः, येषु बालकाः पूर्ण-उत्साहेन सहभागिन: अभवन्। एतेन बालकेषु दल-भावः, आत्मविश्वासः तथा खेल-भावना च विकसिताः।
सचिन-तेन्दुलकरः उक्तवान् यत् उत्तम-खेल-क्रीडकाणां निर्माणाय केवलं व्यक्तिगत-उत्साहः पर्याप्तः नास्ति, अपि तु आधारभूत-स्तरे सुदृढ-खेल-सुविधाः आवश्यकाः सन्ति। सः एतत् अपि अवदत् यत् विविध-खेलानां सहभागितया रणनैतिक-चिन्तन-क्षमता तथा मानसिक-परिपक्वता वर्धते।
पूर्व-क्रिकेट-क्रीडकेन उक्तं यत् बस्तरे बालकानां कृते समुचित-प्रांगणाभावः अस्ति इति ज्ञातम्। तस्मात् प्रतिभा-विकासाय प्रशिक्षकाः प्रेषिताः भविष्यन्ति, ये १०० स्थानीय-शिक्षकान् प्रशिक्षयिष्यन्ति, ये च बालकानां कौशलं विकसितुं साहाय्यं करिष्यन्ति। सः अपि उक्तवान् यत् बस्तरे ५० विद्यालय-प्रांगणानि विकसितानि भविष्यन्ति, यत्र बालकाः उत्तम-खेल-सुविधां प्राप्स्यन्ति।
अन्ते कार्यक्रमे तस्मै स्मृति-चिह्नरूपेण टेराकोटा-शिल्पानि तथा लौह-शिल्प-कला-निर्मिताः वस्तूनि ग्रामवासिभिः प्रदत्तानि।
हिन्दुस्थान समाचार / अंशु गुप्ता