Enter your Email Address to subscribe to our newsletters


बिलासपुर-नगरम्, २२ अप्रैलमासः (हि.स.)। छत्तीसगढ़-राज्यस्य बिलासा-देवी-केवट-विमानस्थानस्य कृते ३ मई (रविवासरः) ऐतिहासिक-दिनत्वेन भविष्यति। एलायंस-एयर-संस्थया अस्मिन् दिनेभ्यः आरभ्य बिलासपुरात् देहलीं प्रति सायंकाले प्रत्यक्ष-विमान-सेवा प्रारभ्यते, येन यात्रिणां महती सुविधा भविष्यति।
बिलासपुरात् देहलीं प्रति प्रत्यक्ष-वायुयान-सेवायाः दीर्घकालात् प्रचलिता अपेक्षा अधुना पूर्णतां प्राप्नोति। नवीन-सेवायाः अन्तर्गतं विमानं सायं ६:२० वादने बिलासपुरं प्राप्स्यति तथा ६:४५ वादने देहलीं प्रति प्रस्थानं करिष्यति। एषा उड्डयन-सेवा रात्रौ ९:२५ वादने देहलीं प्राप्स्यति। प्रारम्भिक-चरणे एषा सेवा प्रति-रविवासरं सञ्चालिता भविष्यति, यां यात्रिकाणां अपेक्षानुसारं भविष्ये सप्ताहे द्विवारं पर्यन्तं विस्तारयितुं योजना अस्ति।अनेन नूतनेन सुविधया यात्रिण: आदिवसस्य कार्याणि समाप्य सायंकाले एव राष्ट्रराजधानीं प्रति प्रत्यक्षं गन्तुं शक्नुवन्ति। विशेषतः व्यापारिक-शासकीय-निज-कार्येभ्यः यात्रां कुर्वतां जनानां कृते एषा सेवा अतीव उपयुक्ता भविष्यति। सायंकालीन-उड्डयनस्य अन्यः लाभः अपि अस्ति—मध्यान्ह-कालीन-उच्च-तापमानस्य कारणेन यत् ‘लोड-पेनल्टी’ इति तकनीकी-समस्या उत्पद्यते, सा इदानीं न भविष्यति, येन विमानानि पूर्ण-क्षमतया उड्डयनं कर्तुं शक्नुवन्ति।
एषा नवीना विमान-सेवा न केवलं बिलासपुर-नगरस्य, अपितु समग्र-प्रदेशस्य आर्थिक-सामाजिक-विकासे महत्त्वपूर्णां भूमिकां निर्वहिष्यति। उत्तमा संपर्क-व्यवस्था व्यापार-पर्यटन-निवेश-अवसरान् वर्धयिष्यति, येन क्षेत्रस्य प्रगत्यै नूतना दिशा प्राप्ता भविष्यति।
हवाई-सुविधा-जनसंघर्ष-समित्याः सदस्यः सुदीप-श्रीवास्तवः उक्तवान् यत् जगदलपुर-नगरस्य १७०० मीटर-दीर्घः तथा अम्बिकापुर-नगरस्य १८०० मीटर-दीर्घः धावन-पथः अस्ति, किन्तु बिलासपुरस्य धावन-पथः अद्यापि लघु अस्ति। धावन-पथस्य १८०० मीटर-पर्यन्तं विस्तारे कृते स्पाइसजेट-संस्थायाः बम्बार्डियर-क्यू ४०० तथा स्टार-एयरवेज-संस्थायाः एम्ब्रेयर-इति वृहद्-विमानानि अपि अत्र अवतरणं कर्तुं शक्नुवन्ति। समित्या रविवासरेण सह बुधवासरे अपि देहली-गमनाय उड्डयन-सेवायाः सञ्चालनस्य आग्रहः पुनरपि कृतः।
हिन्दुस्थान समाचार / अंशु गुप्ता