Enter your Email Address to subscribe to our newsletters

नवदेहली-नगरम्, २२ अप्रैलमासः (हि.स.)। राष्ट्रपतिभवनस्य “चेंज-ऑफ-गार्ड” समारोहस्य समये परिवर्तनं कृतम्। अयं समारोहः प्रति-शनिवासरे राष्ट्रपतिभवनस्य प्राङ्गणे आयोज्यते। अस्य सप्ताहात् आरभ्य अस्य समयः प्रातः ७:३० वादनतः ८:३० वादनपर्यन्तं निर्धारितः अस्ति।
राष्ट्रपति-सचिवालयस्य अनुसारं एतत् परिवर्तनं २५ अप्रैल-दिनात् प्रवर्तिष्यते। अस्मिन् समारोहे राष्ट्रपतिनः अङ्गरक्षकदलस्य (प्रेसिडेण्ट्स-बॉडीगार्ड इति पीबीजी) नूतन-दलम् पुरातन-दलात् कार्यभारं गृह्णाति। स्वीयया विशिष्ट-वेशभूषया, उन्नत-काय-घोटकैः, वाद्य-वृन्दस्य ध्वन्या सह कृतैः सुसंगत-सैन्य-संगत्यै च अयं कार्यक्रमः पर्यटकानां मध्ये अत्यन्तं लोकप्रियः अस्ति। उल्लेखनीयं यत् अयं समारोहः भव्य-सैन्य-परम्परायाः द्योतकः अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता