Enter your Email Address to subscribe to our newsletters

नवदेहली-नगरम्, २२ अप्रैलमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र-मोदी देवभूमौ उत्तराखण्ड-राज्ये श्री-केदारनाथ-धाम्नः कपाट-उद्घाटनस्य तथा च चारधाम-यात्रायाः शुभारम्भस्य अवसरे देशव्यापिनः श्रद्धालून् प्रति शुभकामनाः प्रदत्तवान्। तेन श्रद्धालून् प्रति पत्रं लिखित्वा तेषां सुखदां सुरक्षितां च मङ्गलमयीं यात्रां कामितवान्।प्रधानमन्त्री उक्तवान् यत् चारधाम-यात्रा राष्ट्रस्य आस्था-आध्यात्मिक-चेतना-सांस्कृतिक-एकतायाः प्रतीकः अस्ति। केदारनाथः, बद्रीनाथः, गङ्गोत्री, यमुनोत्री च इव तीर्थस्थानानि शताब्देभ्यः राष्ट्रस्य सनातन-परम्परां आध्यात्मिक-विरासतं च सुदृढयन्ति। एताभिः यात्राभिः श्रद्धालवः स्वमूलैः सह सम्बद्धाः भवन्ति तथा च भारतस्य प्राचीन-संस्कृतेः अनुभवं कुर्वन्ति।
प्रधानमन्त्री ‘एक्स’ इत्यत्र श्रद्धालूनां कृते विशेषं पत्रं लिखितवान्। सः उक्तवान्— “१९ अप्रैल-दिने गङ्गोत्री-यमुनोत्री-धाम्नोः कपाटौ उद्घाटितौ स्तः, केदारनाथ-धाम्नः कपाटाः अपि विधि-विधानपूर्वकं उद्घाटिताः सन्ति, तथा च २३ अप्रैल-दिने बद्रीनाथ-धाम्नः कपाटाः अपि श्रद्धालूनां कृते उद्घाटिताः भविष्यन्ति। हिमालयस्य कुक्षौ स्थितानि एतानि चतुर्धामानि अस्माकम् अटूट-आस्था-विश्वासयोः केन्द्राणि सन्ति। आदि-शङ्कराचार्येण सहितानां महान्-सन्तानां प्रयत्नैः एतानि तीर्थानि राष्ट्रं एकसूत्रे बध्नान्ति। एषा यात्रा केवलं धार्मिक-अनुष्ठानं न, अपि तु आध्यात्मिक-अनुभवस्य माध्यमम् अपि अस्ति।”
प्रधानमन्त्री उक्तवान् यत् विकसित-भारतस्य संकल्पे उत्तराखण्डस्य महत्त्वपूर्णा भूमिका अस्ति। राज्ये पर्यटनस्य, आधारभूत-संरचनानां, आध्यात्मिक-सुविधानां च तीव्र-विकासः भवति। गत-वर्षेषु चारधाम-यात्रां अधिक-सुगमां सुरक्षितां सुविधाजनकां च कर्तुं व्यापकाः प्रयासाः कृताः। सः श्रद्धालून् प्रति आह्वानं कृतवान् यत् ते यात्राकाले “डिजिटल-उपवासं” पालनं कुर्वन्तु तथा च प्रकृतेः आध्यात्मिकतायाः च सह गाढं सम्बन्धं अनुभवन्तु। अनेन यात्रानुभवः अधिकः सार्थकः भविष्यति।
प्रधानमन्त्री श्रद्धालून् प्रति पञ्च-संकल्पान् स्वीकर्तुं अनुरोधं कृतवान्। तेषु तीर्थस्थलेषु स्वच्छतायाः पालनम्, पर्यावरण-संरक्षणे सजगता, सेवा-सहयोग-भावनायाः स्वीकरणम्, स्थानीय-उत्पादानां प्रोत्साहनम्, यात्राकाले अनुशासन-नियम-पालनं च अन्तर्भवति। सः एकवार-उपयोग-प्लास्टिक-परित्यागं, नदीनां स्वच्छतां रक्षणं, स्थानीय-परम्पराणां सम्मानं च अपि आग्रहं कृतवान्। प्रधानमन्त्री उक्तवान् यत् श्रद्धालवः यात्राकाले स्थानीय-जनैः सह सम्बद्धाः भवन्तु, तेषां जीवनं संस्कृति-परम्परां च अवगच्छन्तु।
प्रधानमन्त्री उक्तवान् यत् एतेषां संकल्पै: सह कृता चारधाम-यात्रा श्रद्धालूनां कृते आध्यात्मिक-समृद्ध-अनुभवः भविष्यति तथा च राष्ट्रस्य सांस्कृतिक-एकतां अधिकं सुदृढं करिष्यति।
हिन्दुस्थान समाचार / Dheeraj Maithani