Enter your Email Address to subscribe to our newsletters

नवदेहली-नगरम्, २२ अप्रैलमासः (हि.स.)। जर्मनी-देशस्य त्रिदिवसीय-भ्रमणे स्थितः रक्षामन्त्री राजनाथसिंह: ईरान-अमेरिका-देशयोः मध्ये युद्ध-विषये भारतस्य सम्भावितां भूमिकां प्रति महत्त्वपूर्णं वक्तव्यं दत्तवान्। सः उक्तवान् यत् भारतं सदा शान्तेः पक्षे स्थितम् अस्ति तथा च भविष्ये उभयोः मध्ये मध्यस्थतायाः भूमिकां निर्वोढुं शक्नोति।
सः बर्लिन-नगरे भारतीय-समुदायेन सह संवादं कृत्वा उक्तवान् यत् यद्यपि वर्तमाने भारतं प्रत्यक्षतया मध्यस्थतां न करोति, तथापि उचिते काले भारतस्य भूमिका सम्भाविता अस्ति। सः अपि अवदत् यत् नरेन्द्रमोदी उभयोः पक्षयोः युद्ध-समापनाय आह्वानं कृतवान्, किन्तु सर्वस्य कार्यस्य कश्चन युक्तः समयः भवति।
रक्षामन्त्री जर्मनी-देशे भव्येन सैन्य-सम्मानेन स्वागतः अभवत्। अस्मिन् भ्रमणे सः जर्मनी-देशस्य नेतृभिः सह द्विपक्षीय-सम्बन्धानां सुदृढीकरणाय चर्चां करिष्यति तथा च ‘मेक-इन-इण्डिया’ इत्यस्य अन्तर्गतं संयुक्त-विकास-सह-उत्पादन-विषये उद्योग-प्रतिनिधिभिः सह संवादं करिष्यति।
भारतीय-प्रवासी-समुदायं प्रशंसन् सः उक्तवान् यत् ते भारत-जर्मनी-सम्बन्धानां दृढतमा: सेतव: सन्ति तथा च व्यापार-प्रौद्योगिकी-स्वास्थ्य-शिक्षा-कलादिषु क्षेत्रेषु महत्त्वपूर्णं योगदानं ददति। सः अवदत् यत् अद्य वैश्विक-मञ्चेषु भारतस्य वाणी अधिकं गौरवेण श्रूयते।
रक्षामन्त्री उक्तवान् यत् भारत-जर्मनी-राजनयिक-सम्बन्धानां ७५ वर्षपूर्तिः २०२६ तमे वर्षे भविष्यति, यः परस्पर-विश्वास-सम्भ्रम-लोकतान्त्रिक-मूल्येषु आधारितः अस्ति। सः भारतीय-प्रवासिनः आह्वयत् यत् ते वैश्विक-स्तरे भारतस्य दृष्टिकोणं प्रोत्साहयन्तु तथा च आर्थिक-सम्बन्धान् सुदृढीकुर्वन्तु।
अन्ते सः पुनरुक्तवान् यत् भारतस्य कूटनीतौ सन्तुलितः दृष्टिकोणः भवति, अतः भारतं सदैव इच्छति यत् ईरान-अमेरिका-देशयोः मध्ये युद्धः समाप्तः भवेत् तथा च शान्तिः स्थाप्येत।
हिन्दुस्थान समाचार / अंशु गुप्ता