Enter your Email Address to subscribe to our newsletters

भुवनेश्वर-नगरम्, २२ अप्रैलमासः (हि.स.)। केन्द्रीय-शिक्षा-मन्त्री धर्मेन्द्र-प्रधानः विश्व-पृथ्वी-दिवसस्य अवसरे पर्यावरण-संरक्षणस्य तथा प्रकृत्या सह सन्तुलित-जीवन-यापनस्य सन्देशं दत्तवान्।
तेन उक्तं यत् एषः दिवसः प्रकृत्या सह उत्तमं सामञ्जस्यं स्थापयितुं तथा अग्रिम-वंशानां कृते पृथिव्याः संरक्षणस्य दायित्व-भावं जनयति।
स्वसन्देशे मन्त्री उक्तवान् यत् अद्य कृताः लघु-लघु सामूहिक-प्रयत्नाः भविष्ये सन्तुलितस्य तथा स्थायिनः विश्वस्य निर्माणे महत्त्वपूर्णां भूमिकां निर्वहन्ति।
तेन नागरिकेभ्यः पर्यावरण-संरक्षणे जागरूकतां धारयितुं तथा दैनिक-जीवने सकारात्मक-परिवर्तनानि स्वीकर्तुं अपि आह्वानं कृतम्।
हिन्दुस्थान समाचार / अंशु गुप्ता