प्रकृतिसंरक्षणस्य सन्देशं दत्त्वा युवासन्ततिः कृता पर्यावरणस्य प्रहरी
- विश्वपृथ्वीदिवसे राष्ट्रिय-भित्तिचित्रप्रतियोगिता आयोजिता लखनऊ, 22 अप्रैलमासः (हि.स.)। विश्वपृथ्वीदिवसावसरे बुधवासरे अखिलभारतीय-भित्तिचित्र-प्रतियोगितायाः ''जीवनस्य वृक्षः'' इति कार्यक्रमस्य नागरिकचरणस्य आयोजनं ''ला मार्टिनियर कॉलेज'' मध्
प्रकृतिसंरक्षणस्य सन्देशं दत्त्वा युवासन्ततिः कृता पर्यावरणस्य प्रहरी


- विश्वपृथ्वीदिवसे राष्ट्रिय-भित्तिचित्रप्रतियोगिता आयोजिता

लखनऊ, 22 अप्रैलमासः (हि.स.)।

विश्वपृथ्वीदिवसावसरे बुधवासरे अखिलभारतीय-भित्तिचित्र-प्रतियोगितायाः 'जीवनस्य वृक्षः' इति कार्यक्रमस्य नागरिकचरणस्य आयोजनं 'ला मार्टिनियर कॉलेज' मध्ये कृतम्। अस्य आयोजनस्य उद्देश्यं सप्तमतः नवमकक्षापर्यन्तं छात्रेषु भारतस्य समृद्धायाः प्राकृतिकविरासतस्य प्रति जागरूकतावर्धनं, पर्यावरणसंरक्षणस्य भावनायाः विकासः तथा च रचनात्मकप्रतिभाभ्यः मञ्चप्रदानम् आसीत्। कार्यक्रमे नगरस्य विभिन्नप्रमुखविद्यालयानां छात्राः सोत्साहं भागं गृहीतवन्तः।

​छात्राः पर्यावरणसंरक्षणस्य महत्त्वेन अवगामिताः

​कार्यक्रमस्य शुभारम्भः 'प्रकृति एवं विरासत' भ्रमणेन अभवत्, यस्य नेतृत्वं सुप्रसिद्धैः विशेषज्ञैः मोहम्मद अहसन (उत्तरप्रदेशस्य पूर्वप्रधानमुख्यवनसंरक्षकः) तथा ए.के. श्रीवास्तव (रेल्वे-विभागस्य पूर्व-एजीएम एवं लखनऊनगरस्य प्रसिद्धः इतिहासकारः) महोदयाभ्यां कृतम्।

​अस्मिन् अन्तरे छात्राः प्रकृतेः, पादपानां पर्यावरणसंरक्षणस्य च महत्त्वेन परिचायिताः। मोहम्मद अहसनः स्वसम्बोधने अवदत् यत् पृथिवीं सुरक्षितुं प्रत्येकं नागरिकेण उत्तरदायित्वं निर्वहणीयम्। सः छात्रान् पादपारोपणं, जलसंरक्षणं तथा जैवविविधतायाः रक्षणं कर्तुं सङ्कल्पं ग्रहीतुम् आह्वानं कृतवान्।

​प्रमुखविद्यालयानां छात्राणां सहभागिता

​भ्रमणानन्तरं भित्तिचित्र-प्रतियोगिता आयोजिता, यस्यां नगरस्य प्रमुखाः विद्यालयाः सम्मिलिताः अभवन्। एतेषु सेठ एम.आर. जयपुरिया स्कूल, सिटी मॉन्टेसरी स्कूल इत्यस्य विविधाः शाखाः, आर्मी पब्लिक स्कूल, स्टडी हॉल स्कूल, लखनऊ पब्लिक कॉलेज, राजकुमार अकादमी, मॉडर्न अकादमी, विद्यास्थली कनार इण्टर कॉलेज, जागृति लोरेटो विद्यालय, होर्नर कॉलेज तथा ला मार्टिनियर कॉलेज इत्यादयः संस्थाः मुख्याः आसन्। प्रतियोगितायां प्रायः ८५ छात्राः भागं गृहीतवन्तः।

​छात्रैः प्रस्तुतम् अद्भुतं चित्राङ्कनम्

​छात्राः स्वभित्तिचित्रेषु क्षेत्रस्य मूलवृक्षान् गुल्मान् च केन्द्रं कृत्वा सुन्दरं चित्राङ्कनं प्रस्तुतवन्तः। केचन पत्राणां पुष्पाणां च संरचनां प्रदर्शितवन्तः, केचन तु फलानां, त्वचाम् तथा तैः सह सम्बद्धानां जीवजन्तूनां चित्रणं कृतवन्तः। अनेकेषु भित्तिचित्रेषु खगानां, तित्तीरीणां, मधुमक्षिकाणां अन्यजीवानां च माध्यमेन प्रकृतेः सन्तुलनं दर्शितम्। प्रत्येकं भित्तिचित्रेण सह प्रभाविणः उद्घोषाः अपि लिखिताः, येषु पर्यावरणरक्षणस्य सन्देशः प्रमुखतया उद्भूतः।

हिन्दुस्थान समाचार