भारतीय अंताराष्ट्रिय जल सप्ताहः 22 तः 26 सितंबर पर्यन्तं, जलवायौ जल प्रबंधने च केंद्रितम्
नव दिल्ली, 22 अप्रैलमासः (हि.स.)। जल शक्ति मंत्रालयेन घोषितं यत् नवमः “भारतीय-अन्ताराष्ट्रिय-जल-सप्ताहः २०२६” आगामी-सेप्टेम्बर-मासस्य २२-तारिखात् २६-तारिखपर्यन्तं भारत मंडपम-स्थले आयोज्यते। अस्य वर्षस्य मुख्य-विषयः “जलवायु-संवेदनशील-जल-प्रबन्धनम्
श्रम शक्ति भवन में आयोजित कार्यक्रम में केंद्रीय जल शक्ति मंत्री सीआर पाटिल ने इंडिया इंटरनेशनल वाटर वीक 2026 का शुभारंभ किया।


नव दिल्ली, 22 अप्रैलमासः (हि.स.)। जल शक्ति मंत्रालयेन घोषितं यत् नवमः “भारतीय-अन्ताराष्ट्रिय-जल-सप्ताहः २०२६” आगामी-सेप्टेम्बर-मासस्य २२-तारिखात् २६-तारिखपर्यन्तं भारत मंडपम-स्थले आयोज्यते। अस्य वर्षस्य मुख्य-विषयः “जलवायु-संवेदनशील-जल-प्रबन्धनम्” भविष्यति, येन पूर-प्रकोपः, अनियमित-वृष्टिः तथा जल-संकटम् इत्यादीनां समस्याः समाधानं कर्तुं शक्यन्ते। कार्यक्रमे जल-संरक्षणम्, कुशल-उपयोगः तथा सतत-प्रबन्धनम् इत्यादिषु विषयेषु चर्चाः भविष्यन्ति।

अस्मिन् अवसरे बुधवासरे श्रम शक्ति भवन-स्थले आयोजिते कार्यक्रमे केन्द्रीय-जल-शक्ति-मन्त्री सीआर पाटिल-महाभागेन औपचारिकतया “इण्डिया-इण्टरनेशनल-वाटर-वीक-२०२६” उद्घाटितः।

पाटिलेन पत्रकार-वार्तायां उक्तं यत् अस्य कालावधौ द्वितीयः “इण्टरनेशनल-वॉश-कॉन्फरेन्स्” अपि सेप्टेम्बर २२-तारिखात् २४-दिनांकपर्यन्तं तत्रैव आयोज्यते। अस्मिन् सम्मेलनः विशेषज्ञाः, शोधकर्तारः, राज्य-सरकाराः, केन्द्रीय-मन्त्रालयानि तथा अराजकीय-संस्थाः सहभागित्वं वहिष्यन्ति। तेन उक्तं यत् जल-उपलब्धिः निरन्तरं क्षीयते, अतः उपभोग-न्यूनता, संरक्षण-वृद्धिः तथा जल-सञ्चयनस्य व्यापक-प्रवर्तनम् अत्यावश्यकम् अस्ति।

भविष्यत्-आह्लानान् निर्दिश्य तेन उक्तं यत् जनसंख्या-वृद्ध्या औद्योगिक-विस्तारेण च जल-संसाधनानां उपरि भारो वर्धिष्यते। सरकारेण नदी-जलाशयानां स्वास्थ्य-सुधारणाय बहवः परियोजनाः सञ्चालिताः, यासु यमुना नदी-पुनरुद्धारः तथा अमृत-सरोवर-परियोजना अपि अन्तर्भवतः।

तथैव जल जीवन मिशन-इति योजना २०२८-वर्षपर्यन्तं विस्तारिताऽस्ति, येन सर्वेषां ग्रामीण-गृहाणां प्रति नल-जलस्य आपूर्तिः सुनिश्चितुं शक्यते।

जल-संसाधन-विभागस्य सचिवः वी.एल.-कंठा-रावः उक्तवान् यत् एषा प्रथमवारम् यदा कार्यक्रमः “इण्डिया-इण्टरनेशनल-वाटर-वीक” इति नाम्ना आयोजितः भविष्यति, तथा अस्मिन् वर्षे अन्ताराष्ट्रिय-सहभागिता अधिका भविष्यति। तेन उक्तं यत् सम्मेलनः तांत्रिक-सत्राणि, प्रदर्शनीं क्षेत्रीय-अवलोकन-यात्राः च समावेशयिष्यति।

अस्मिन् कार्यक्रमे शासन-व्यवस्था, संसाधन-अनुकूलनम्, प्रौद्योगिकी-उपयोगः, सामुदायिक-सहभागिता, जलवायु-संकट-प्रबन्धनम् तथा वित्तीय-तन्त्राणि इत्यादिषु विषयेषु विस्तृताः चर्चाः भविष्यन्ति।।

---------------

हिन्दुस्थान समाचार