Enter your Email Address to subscribe to our newsletters

फतेहपुरम्, 22 अप्रैलमासः (हि.स.)। उत्तरप्रदेशस्य फतेहपुर-जिल्लायां स्थितः कलशसिंहः अन्ताराष्ट्रिय-हिन्दी-ओलम्पियाडे कांस्यपदकं जित्वा स्वजनपदस्य यशः प्रकाशितवान्। अन्ताराष्ट्रिय-हिन्दी-ओलम्पियाड-प्रतियोगिता २०२५ मध्ये उत्कृष्टप्रदर्शनस्य कृते बुधवासरे कलशसिंहः प्रशस्तिपत्रेण सह कांस्यपदकेन सम्मानितः। एषा प्रतियोगिता अन्ताराष्ट्रिय-हिन्दी-ओलम्पियाड-फाउण्डेशनद्वारा आयोजितासीत्, या केन्द्रीय-माध्यमिक-शिक्षा-मण्डल (CBSE), रक्षामन्त्रालयेन तथा विदेशमन्त्रालयेन, भारत-सर्वकारेण अनुमोदिता अस्ति।
जिलस्य धाता-नगरपञ्चायत-अन्तर्गत हरदवां-ग्रामे निवासी राजेशसिंहस्य पुत्रः कलशसिंहः प्रयागराज-स्थिते पीएम-श्री-केन्द्रीय-विद्यालय-न्यू-कैण्ट् मध्ये आयोजिते सम्मान-समारोहे एतत् सम्मानं प्राप्तवान्। प्रतियोगितायां उत्कृष्टं प्रदर्शनं कृत्वा सः तृतीयं स्थानं प्राप्तवान्। विशेषं यत् कलशसिंहः अद्यापि तृतीय-कक्षायाः छात्रः अस्ति, तथा च एतादृशे अल्पवयसे अस्य उपलब्धिः सर्वान् गौरवान्वितान् अकरोत्।
कलशसिंहस्य सफलतया तस्य परिवारमध्ये हर्षोल्लासः वर्तते। पिता राजेशसिंहः पुत्रस्य अस्य उपलब्धौ गौरवं व्यक्तवान् तथा उक्तवान् यत् एतत् परिश्रमस्य, लग्नस्य तथा शिक्षकैः प्रदत्तस्य मार्गदर्शनस्य फलम् अस्ति। हरदवां-ग्रामे अपि जनाः कलशस्य सफलतायाः विषये प्रसन्नतां व्यक्तवन्तः तथा एतत् क्षेत्रस्य बालकानां कृते प्रेरणादायकं इति उक्तवन्तः।
ग्रामीणजनाः अपि उक्तवन्तः यत् लघुग्रामस्य छात्रेण अन्ताराष्ट्रिय-स्तरे पदकस्य प्राप्तिः सम्पूर्णक्षेत्रस्य कृते गौरवस्य विषयः अस्ति। कलशसिंहस्य एषा उपलब्धिः अन्येषां छात्रछात्राणां शिक्षायां तथा प्रतियोगितासु अग्रे गन्तुं प्रेरणां दास्यति। अस्य सफलतायाः उपलक्ष्ये परिजनाः, शिक्षकाः, शुभचिन्तकाः तथा ग्रामवासिनः तस्मै अभिनन्दनानि प्रदाय तस्य उज्ज्वल-भविष्यस्य कामनां कृतवन्तः।
हिन्दुस्थान समाचार