काङ्ग्रेस-अध्यक्षस्य मल्लिकार्जुन-खरगे-महोदयस्य उपरि उपराष्ट्रपतेः राधाकृष्णन्-महोदयस्य परोक्षं वाक् प्रहारः
बीदरम्, 22 अप्रैलमासः (हि.स.)। प्रधानमन्त्रिणः नरेन्द्रमोदिनः विरुद्धं कृतया आपत्तिजनक-टिप्पण्या सन्दर्भे काङ्ग्रेस-दलस्य राष्ट्रियाध्यक्षस्य मल्लिकार्जुन-खरगे-महोदयस्य उपरि उपराष्ट्रपतिद्वारा सी. पी. राधाकृष्णन्-महोदयेन परोक्षरूपेण वाक् प्रहारः क
VP


बीदरम्, 22 अप्रैलमासः (हि.स.)।

प्रधानमन्त्रिणः नरेन्द्रमोदिनः विरुद्धं कृतया आपत्तिजनक-टिप्पण्या सन्दर्भे काङ्ग्रेस-दलस्य राष्ट्रियाध्यक्षस्य मल्लिकार्जुन-खरगे-महोदयस्य उपरि उपराष्ट्रपतिद्वारा सी. पी. राधाकृष्णन्-महोदयेन परोक्षरूपेण वाक् प्रहारः कृतः।

​कर्नाटकस्य बीदर-जनपदस्य भालकी-नगरे आयोजितस्य डॉ. बसवलिङ्ग पट्टदेवरस्य ७५ तमस्य 'अमृत-महोत्सव-कार्यक्रमस्य' सम्बोधनकाले उपराष्ट्रपतिः अवदत् यत्— “अस्माकं खरगे-महोदयस्य च दृष्टिकोणे अल्पः भेदः अस्ति। मल्लिकार्जुन-खरगे-महोदयेन कृष्ण-धवलवर्णयोः (काले और सफेद) मध्ये अन्तरं न दृश्यते। तथैव तेन आतङ्कवादिनां तथा आतङ्कवादिषु भयं जनयितॄणां मध्ये अपि भेदः न अनुभूयते। एतदतिरिच्य वयं द्वौ उत्तमे मित्रे स्वः।”

​उपराष्ट्रपतेः एतद् वक्तव्यं प्रधानमन्त्रिणः मोदिनः विरुद्धं मल्लिकार्जुन-खरगे-महोदयस्य साम्प्रतिकीं टिप्पणीं प्रति प्रतिक्रियारूपेण दृश्यते। यद्यपि, तेन स्वभाषणे एतदपि स्पष्टीकृतं यत् राजनैतिक-मतभेदानां सत्यपि तयोः व्यक्तिगत-सम्बन्धाः सौहार्दपूर्णाः सन्ति।

-------------

हिन्दुस्थान समाचार