Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 22 अप्रैलमासः (हि.स.)।
कोटिशः हिन्दूनां श्रद्धा-विश्वासयोः प्रतीकः बाबा केदारनाथस्य कपाटाः अद्य वैदिकमन्त्रउच्चारणेन पारम्परिकरीतिभिः सह उद्घाटिताः। अस्मिन् अवसरे मुख्यमन्त्री पुष्कर सिंह धामी महोदयेन नरेन्द्र मोदिनः पक्षे प्रथमपूजा कृता। कपाटोद्धाटनानन्तरं मुख्यमन्त्री उक्तवान् यत् प्रधानमन्त्री केदारनाथस्य प्रति विशेषां श्रद्धां धारयति, तेनैव कारणेन उत्तराखण्डस्य चतुर्धामानां शीघ्रं विकासः भवति। सः कपाटोद्धाटनस्य शुभाशंसाः दत्त्वा देशविदेशस्थितान् श्रद्धालून् चतुर्धामयात्रायाः निमन्त्रणम् अपि दत्तवान्।
बाबा केदारस्य कपाटोद्धाटनस्य ऐतिहासिके क्षणे बहुसंख्यकाः श्रद्धालवः धाम्नि उपस्थिताः आसन्। प्रातःकालात् एव मन्दिरपरिसरे जनसमूहस्य आगमनम् आरब्धम्। कपाटोद्धाटनेन सह उत्तराखण्डस्य बहुप्रतीक्षिता चतुर्धामयात्रा अपि आरब्धा, यस्मिन् देशविदेशेभ्यः लक्षशः श्रद्धालूनाम् आगमनस्य सम्भावना वर्तते। प्रशासनस्य पक्षतः यात्रायाः सुचारु-सुरक्षितव्यवस्थार्थं व्यापकाः प्रबन्धाः कृताः।
अस्मिन् काले अष्टमी सिखलाई रेजिमेण्टस्य वाद्यवृन्दस्य मधुरध्वनिभिः डमरूवाद्यनिनादैः च समग्रं धाम शिवमयं जातम्। अस्मिन् अवसरे बद्रीनाथ-केदारनाथमन्दिरसमित्याः अध्यक्षः हेमन्तद्विवेदी, पुजारी टी. गङ्गाधरलिङ्ग, केदारसभाध्यक्षः राजकुमारतिवारी, बीकेटीसी मुख्यकार्याधिकारी विशालमिश्रः, पुलिसअधीक्षिका नीहारिकातोमर, तीर्थपुरोहितः उमेशपोस्ती, बीकेटीसी सदस्यः डॉ विनीतपोस्ती इत्यादयः कपाटोद्धाटनस्य साक्षिणः अभवन्।
केदारनाथ धाम द्वादशज्योतिर्लिङ्गेषु एकादशं ज्योतिर्लिङ्गरूपेण पूज्यते। ग्रीष्मकाले षण्मासान् मानवाः, शीतकाले षण्मासान् देवताः भगवतः केदारनाथस्य पूजाम् अर्चनां च कुर्वन्ति इति परम्परा। एषः धाम उत्तराखण्डस्य चतुर्धामेषु एकः तथा पञ्चकेदारेषु प्रथमः केदारः इति प्रसिद्धः। शीतकाले हिमवृष्टेः अनन्तरं कपाटाः षण्मासान् यावत् पिधीयन्ते, तथा शीतकालीनपूजा ओंकारेश्वर मंदिर उखीमठे सम्पद्यते।
मेरुसुमेरुपर्वतयोः उपत्यकायां केदारसिंहपर्वतस्य मन्दाकिनीनद्याः च तीरे भगवान् केदारनाथस्य भव्यं मन्दिरं विराजते। परम्परानुसारं द्वापरयुगे पाण्डवाः गोत्रहत्यापापमोक्षणार्थं अत्र आगतवन्तः। तदा भगवान् शिवः महिषरूपेण तेषां दर्शनम् अकरोत्, अनन्तरं पाण्डवैः अत्र केदारनाथरूपेण ज्योतिर्लिङ्गस्य स्थापना कृता। गर्भगृहे त्रिकोणाकारः शिवलिङ्गः प्रतिष्ठितः अस्ति। एतत् ज्योतिर्लिङ्गं सतयुगसम्भवम् इति अपि मन्यते, यत्र नरनारायणौ तपः अकरोताम्। एषः धाम मन्दाकिनीनद्याः उद्गमस्थलम् अपि अस्ति। प्रतिवर्षं अप्रैल-मे मासयोः ग्रीष्मकालस्य षण्मासान् यावत् कपाटाः भक्तानां दर्शनेभ्यः उद्घाटिताः भवन्ति, तथा दीपावल्याः अनन्तरं भैयाद्वितीयायां कपाटाः पिधीयन्ते।
केदारपुरीस्य रक्षकदेवता भुकुंट भैरव अपि अत्र विशेषपूजनीयः अस्ति। धार्मिकपरम्परानुसारं सः क्षेत्रस्य रक्षणं करोति। शीतकाले यदा समग्रं क्षेत्रं हिमेन आच्छादितं भवति तथा अपि भैरवदेवः अत्र स्थित्वा केदारपुरीं रक्षति इति विश्वासः। तस्मात् श्रद्धालवः केदारनाथदर्शनात् पूर्वं वा अनन्तरं भैरवमन्दिरं गत्वा पूजाम् अर्चनां च कुर्वन्ति। भैरवदर्शनं विना केदारनाथयात्रा अपूर्णा मन्यते। स्थानीयपुरोहितानां मतानुसारं भैरवदेवस्य कृपया एव केदारपुरी सर्वसंकटैः सुरक्षिताऽस्ति, अतः श्रद्धालूनां मध्ये तस्य प्रति गाढा श्रद्धा दृश्यते।
हिन्दुस्थान समाचार